पाठ ९४ वा - स्वाध्यायासाठी प्रयोग बदला.
प्रयोग बदला
१) तापस: मोक्षम् इच्छति । २) कृषिवल: क्षेत्रं कृषति । ३) वृषभ: शकटं कर्षति । ४) सेवक: भूमिं खनति । ५) गायक: गीतं गायति । ६) सज्जन: सन्मार्गं न त्यजति । ७) वृष: घासं चर्वति । ८) चिता शरीरं दहति । ९) वृक्ष: फलानि यच्छति । १०) आचार्य: शिष्यान् उपदिशति । ११) गुरु: ज्ञानं वितरति । १२) वयं मेघान् पश्याम: । १३) नृपस्य दर्शनम् इच्छामि । १४) नृप: सेवकम् आदिशति । १५) बालिका मां नमति । १६) हरि: कलशं पश्यति । १७) भूपति: सेवकस्य वाक्यम् आकर्णयति । १८) भूप: रत्नानि अवलोकयति । १९) भूप: धनम् इच्छति । २०) बाल: विद्यां लभते । २१) ऋषि: क्रौञ्चं पश्यति । २२) व्याध: खगं हिंसति । २३) क्रौञ्ची मृतं खगम् पश्यति ।२४) ऋषि: व्याधम् शपति । २५) ब्रह्मदेव: ऋषिम् आदिशति ।
उत्तरे
प्रयोग बदला =
१) तापस: मोक्षम् इच्छति ।
उत्तर - तापसेन मोक्ष: इष्यते ।
२) कृषिवल: क्षेत्रं कृषति ।
उत्तर - कृषिवलेन क्षेत्रं कृष्यते ।
३) वृषभ: शकटं कर्षति ।
उत्तर - वृषभेन शकट: कृष्यते ।
४) सेवक: भूमिं खनति ।
उत्तर - सेवकेन भूमिं खन्यते ।
५) गायक: गीतं गायति ।
उत्तर - गायकेन गीतं गीयते ।
६) सज्जन: सन्मार्गं न त्यजति ।
उत्तर - सज्जनेन सन्मार्ग: न त्यज्यते ।
७) वृष: घासं चर्वति ।
उत्तर - वृषेण घास: चर्व्यते ।
८) चिता शरीरं दहति ।
उत्तर - चितया शरीरं दह्यते ।
९) वृक्ष: फलानि यच्छति ।
उत्तर - वृक्षेण फलानी दीयन्ते ।
१०) आचार्य: शिष्यान् उपदिशति ।
उत्तर - आचार्येण शिष्या: उपदिश्यन्ते ।
११) गुरु: ज्ञानं वितरति ।
उत्तर - गुरुणा ज्ञानं वितीर्यते ।
१२) वयं मेघान् पश्याम: ।
उत्तर - अस्माभि: मेघा: दृश्यन्ते ।
१३) नृपस्य दर्शनम् इच्छामि ।
उत्तर - (मया) नृपस्य दर्शनम् इष्यते ।
१४) नृप: सेवकम् आदिशति ।
उत्तर - नृपेण सेवक: आदिश्यते ।
१५) बालिका मां नमति ।
उत्तर - बालिकया अहं नम्ये ।
१६) हरि: कलशं पश्यति ।
उत्तर - हरिणा कलश: दृश्यते ।
१७) भूपति: सेवकस्य वाक्यम् आकर्णयति ।
उत्तर - भूपतिना सेवकस्य वाक्यं आकर्ण्यते ।
१८) भूप: रत्नानि अवलोकयति ।
उत्तर - भूपेन रत्नानि अवलोक्यन्ते ।
१९) भूप: धनम् इच्छति ।
उत्तर - भूपेन धनम् इष्यते ।
२०) बाल: विद्यां लभते ।
उत्तर - बालेन विद्या लभ्यते ।
२१) ऋषि: क्रौञ्चं पश्यति ।
उत्तर - ऋषिणा क्रौञ्च: दृश्यते ।
२२) व्याध: खगं हिंसति ।
उत्तर - व्याधेन खग: हिंस्यते ।
२३) क्रौञ्ची मृतं खगम् पश्यति ।
उत्तर - क्रौञ्च्या मृत: खग: दृश्यते ।
२४) ऋषि: व्याधम् शपति ।
उत्तर - ऋषिणा व्याध: शप्यते ।
२५) ब्रह्मदेव: ऋषिम् आदिशति ।
उत्तर - ब्रह्मदेवेन ऋषि: आदिश्यते ।
No comments:
Post a Comment