पाठ ९७ वा - चित्रकारस्य चातुर्यम्
कश्चित् खलो नृपो वामेन नेत्रेण काण आसीत् । अर्जुनो नाम तस्य कोऽपि चित्रकार: । अथैकदा नृपस्तं परीक्षितुमवदत् - “भद्र, त्वं मम सन्तोषकरं चित्रमालिख । अन्यथा त्वां दण्डयेयमि’ ति । चित्रकारोऽवदत् - ’“देव, तव सन्तोषकरं चित्रमालिखितुं प्रयतेय” इति । किन्तु स मनस्यन्त्यन्तमखिद्यत अचिन्तयच्च, ‘क: खलु सर्वान् जनान् सन्तोषयितुं समर्थ: ?
क्वचिद्रुष्ट: क्वचित्तुष्ट: रुष्टस्तुष्ट: क्षणे क्षणे ।
अव्यवस्तितचित्तस्य प्रसादोऽपि भयङ्कर: ॥ इति
अर्थ - जो कधी रुष्ट असतो तर कधी तुष्ट असतो. क्षणोक्षणी रुष्ट व तुष्ट होणार्या मन अव्यवस्थित (चंचल) असलेल्या मनुष्याची कृपा सुद्धा भयंकर असते.
अर्जुनोऽचिन्तयत्, “यद्यहमस्य वास्तवं चित्रं लिखेयं तर्हि चित्रे स्वनयनं काणं दृष्ट्वाऽयं क्रुध्येत् । यदि च चित्रेऽस्य नयनं काणं न लिखेयं तर्हि तत् वास्तवं चित्रं न भवेत् । तेन सर्वे जना मां निन्देयु: । किं कुर्याम् ? इतो व्याघ्र इतस्तटी ।’ इति ।
एवं चिन्ताकुल: स: किंचनारण्यं आगच्छत् । तत्र स: एकं व्याधं व्यलोकयत् । स: कंचन खगं हन्तुं वामनेत्रं निमील्य शरासनं समाकृष्यातिष्ठत् । तं व्याधं तथा विलोक्य मुदित: स: चित्रकारोऽचिन्तयत् - ‘यद्यहं चित्रे नृपतिं मृगयायां रतो लिखेयं तर्हि नृपस्य कोपो न भवेत्, जनस्यापवादोऽपि न स्यात्’ इति ।
तत: स तादृशं चित्रं विरचय्य नृपमदर्शयत् । तत् चित्रं दृष्ट्वाऽतिविस्मितो राजा चित्रकाराय च सत्कारपूर्वकं विपुलं धनमयच्छत् । सर्वेऽपि विस्मिता जनास्तदानीमवदन् ‘अहो चित्रकारस्य चातुर्यम्’ इति ।
संधी सोडवा -
१) खलो नृपो
२) काण आसीत्
३) अर्जुनो नाम
४) कोऽपि
५) अथैकदा
६) नृपस्तं
७) परीक्षितुमवदत्
८) चित्रमालिख
९) दण्डयेयमिति
१०) चित्रकारोऽवदत्
११) चित्रमालिखितुं
१२) स मनस्यन्त्यन्तमखिद्यत
१३) अचिन्तयच्च
१४) क्वचिद्रुष्ट:
१५) क्वचित्तुष्ट:
१६) रुष्टस्तुष्ट:
१७) प्रसादोऽपि
१८) अर्जुनोऽचिन्तयत्
१९) यद्यहमस्य
२०) दृष्ट्वाऽयं
संधी करा.
१) चित्रे + अस्य
२) इत: + व्याघ्र:
३) इत: + तटी
४) व्याघ्र: + इत:
५) समाकृष्य + अतिष्ठत्
६) चित्रकार: + अचिन्तयत्
७) यदि + अहं
८) कोप: + न
९) जनस्य + अपवाद:
१०)तिविस्मितो् + राजा
११) जना: + तदानीम्
१२) अपवाद: + अपि
उत्तरे
संधी सोडवा -
१) खलो नृपो = खल: + नृप:
२) काण आसीत् = काण: + आसीत्
३) अर्जुनो नाम = अर्जुन: + नाम
४) कोऽपि = क: + अपि
५) अथैकदा = अथ + एकदा
६) नृपस्तं = नृप: + तम्
७) परीक्षितुमवदत् = परिक्षितुम् + अवदत्
८) चित्रमालिख = चित्रम् + आलिख
९) दण्डयेयमिति = दण्डयेयम् + इति
१०) चित्रकारोऽवदत् = चित्रकार: + अवदत्
११) चित्रमालिखितुं = चित्रम् + आलिखितुम्
१२) स मनस्यन्त्यन्तमखिद्यत = स: + मनसि + अत्यन्तम् + अखिद्यत
१३) अचिन्तयच्च = अचिन्तयत् + च
१४) क्वचिद्रुष्ट: = क्वचित् + रुष्ट:
१५) क्वचित्तुष्ट: = क्वचित् + तुष्ट:
१६) रुष्टस्तुष्ट: = रुष्ट + तुष्ट:
१७) प्रसादोऽपि = प्रसाद: + अपि
१८) अर्जुनोऽचिन्तयत् = अर्जुन: + अचिन्तयत्
१९) यद्यहमस्य = अदि + अहम् + अस्य
२०) दृष्ट्वाऽयं = दृष्ट्वा + अयम्
संधी करा.
१) चित्रे + अस्य = चित्रेऽस्य
२) इत: + व्याघ्र: = इतो व्याघ्र:
३) इत: + तटी = इतस्तटी
४) व्याघ्र: + इत: = व्याघ्र इत:
५) समाकृष्य + अतिष्ठत् = समाकृष्य़ातिष्ठत्
६) चित्रकार: + अचिन्तयत् = चित्रकारोऽचिन्तयत्
७) यदि + अहं = अद्यहम्
८) कोप: + न = कोपो न
९) जनस्य + अपवाद: = जनस्यापवाद:
१०) अतिविस्मित: + राजा = अतिविस्मितो राजा
११) जना: + तदानीम् = जना तदानीम्
१२) अपवाद: + अपि = अपवादोऽपि
" पाठ ९७ वा - चित्रकारस्य चातुर्यम् " या Audio साठी खाली क्लिक् करा :
No comments:
Post a Comment