Tuesday, July 14, 2020

पाठ २६ वा सुभाषितानि

१) नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पति: । पृथिवीभूषणं राजा विद्या सर्वस्य भूषणम् ॥

२) प्रदोषे दीपकश्चन्द्र: प्रभाते दीपको रवि: ।
त्रैलोक्ये दीपको धर्म: सुपुत्र: कुलदीपक: ॥

३) अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रममित्रस्य कुत: सुखम् ॥

४) वृथा वृष्टि: समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा दीपो दिवाऽपि च ॥

कठिण शब्दांचे अर्थ -
प्रदोष = रात्रीचा अरंभकाळ
दिवा = दिवसा
अलस = आळशी

प्रश्न १ ला उत्तराणि लिखत ।

१) चन्द्र कस्य भूषणम् ?
२) नारीणां भूषणं किम् ?
३) सर्वस्य भूषणं किम् ?
४) प्रदोषे क: दीपक: अस्ति ?
५) प्रभाते क: दीपक: अस्ति ?
६) धर्म: कस्य दीपक: ?
७) क: कुलदीपक: ?
८) क: विद्यां न अधिगच्छति ?
९) वृष्टि: कदा व्यर्था भवति ?
१०) दीप: कदा व्यर्थ: भवति ?

प्रश्न २) पूर्ण करा

लिखामि ----   ----
-----  वसथ:   ----
-----  ------   अटन्ति 

No comments:

Post a Comment

पाठ १२१ वा - स्वयं अध्ययनासाठी सुभाषिते

पाठ   १२१   वा  -  स्वयं अध्ययनासाठी सुभाषिते १ ) अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।   अजापुत्रं बलिं दद्यात् देवो दुर्...