पाठ १११ वा - वृद्धाया: चातुर्यम् ।
स्वयं अध्ययनार्थ पाठ
आसीत् चित्रपुरं नाम किमपि नगरं श्रीपर्वतस्य समीपे । ‘पर्वतस्य शिखरप्रदेशे घण्टाकर्णो नाम राक्षस: प्रतिवसती’ ति जनप्रवादोऽवर्तत ।
अथैकदा कश्चन चौर: घण्टामेकां चोरयित्वा वनं गतो व्याघ्रेण च हत: । तदा सा घण्टा वन एवापतत् । अन्यस्मिन् दिने केचन वानरास्तत्रागच्छन् । कुतुहलेन तां घण्टां हस्ते धृत्वाधुन्वन् । अकस्मादेव घण्टानादोऽजायत । घण्टानादेन चकितास्ते पुनर्पुनो घण्टामधुन्वन् घण्टानादं चाकुर्वन् ।
चित्रपुरस्था नागरिका वारं वारं पर्वतशिखराप्रदेशात् घण्टानादमाकर्णयन् । भयाकुलास्तेऽचिन्तयन्, “नूनं शिखरप्रदेशे घण्टाकर्णो नाम राक्षसो वर्तते यो मनुष्यान् खादति घण्टां च वादयति । एवं च भीत्या पौरजना अन्यत्र गन्तुं प्रारभन्त ।
तदा चिन्ताकुलो नृप उदघोषयत् “यो घण्टाकर्णं नाशयेत् तस्मै विपुलं सुवर्णं यच्छेयमहमी” ति । तच्छ्रुत्वा काचन वृद्धा वनं गता । तत्र च कंचित् कालं निभृतमतिष्ठत् । ‘वानरा एव घण्टां वादयन्ति” इति साऽपश्यत् ।
अन्येद्यु: वानरेभ्यो मधुराणि फलान्ययच्छत् । यावत् ते फलभक्षणमग्ना: संजाता: तावदेव तां घण्टामादाय प्रमुदिता सा नृपं प्रत्यागच्छदवदच्च, “राजन्, घण्टाकर्णो हतो मया” इति । भूप: तस्यै प्रभूतं सुवर्णमयच्छत् ।
तत: प्रभृति पौरजना: घण्टारवं नाकर्णयन् भयमुक्ताश्चाजायन्त ।
स्वाध्याय -
प्रश्न १) खालील प्रश्नांची उत्तरे द्या.
१) क: जनप्रवाद: आसीत् ?
२) चौरेण किं कृतम् ?
३) व्याघ्रेण क: हत: ?
४) तत्रस्था: वानरा: किमकुर्वन् ?
५) वानरा: किमर्था: चकिता: अभवन् ?
६) चित्रपुरस्था: नागरिका: किमर्थं भयभीता: अजायन्त ?
७) राजा किमर्थं चिन्ताकुल: अभवत् ?
८) राजा किम् उदघोषयत् ?
९) वृद्धया वने किं दृष्टम् ?
१०) वृद्धया कथं चातुर्यं प्रदर्शितम् ?
प्रश्न २ रा प्रयोग बदला.
१) चौर: व्याघ्रेण हिंसित: ।
२) वानरा: घण्टानादं अकुर्वन् ।
३) नागरिका घण्टानादमाकर्णयन् ।
४) तेऽचिन्तयन्
५) राक्षस: मनुष्यान् खादति ।
६) क: घण्टाकर्णं नाशयेत् ?
७) तस्मै विपुलं सुवर्णं यच्छेयमहम् ।
८) सा वानरान् अपश्यत् ।
९) सा वानरेभ्य: फलानि अयच्छत् ।
१०) सा नृपं अभणत् ।
११) मया घण्टाकर्ण: हत: ।
१२) पौरजना: घण्टारवं नाकर्णयन् ।
प्रश्न ३ रा कंसातील सूचनांनुसार बदल करा.
१) आसीत् चित्रपुरं नाम किमपि नगरं श्रीपर्वतस्य समीपे । (अस् धातू ऐवजी वृत्-वर्त् धातू वापरा.)
२) कश्चन चौर: घण्टामेकां चोरयित्वा वनं अगच्छत् । (पूर्वकालवाचक काढा.)
३) वानरा: तत्र ----- । (आ + गम् प्रथम भूतकाळ वापरा.)
४) वानरा: कुतुहलेन तां घण्टां हस्ते धृत्वाधुन्वन् । (पूर्वकालवाचक काढा.)
५) वानरा: ---- चकिता: अभवन् (घण्टानाद)
६) पौरजना: --- अन्यत्र --- प्रारभान्त । (भय, या चे हेत्वर्थक)
७) राज्ञी --- अभवत् । (चिन्ताकुल)
८) सा --- कृते ---- फलानि अयच्छत् । (कपि, मिष्ट)
९) सा घण्टामादाय प्रत्यागच्छत् । (पूर्वकालवाचक काढा.)
प्रश्न ४) संधी सोडवा.
१) घण्टाकर्णो नाम =
२) प्रतिवसतीति =
३) जनप्रवादोऽवर्तत
४) अथैकदा =
५) घण्टामेकां =
६) एवापतत् =
७) वानरास्तत्रागच्छन् =
८) धृत्वाधुन्वन् =
९) अकस्मादेव =
१०) घण्टानादोऽजायत =
११) चिन्ताकुलो नृप =
१२) नृप उदघोषयत् =
१३) यो घण्टाकर्णं =
१४) यच्छेयमहमीति =
१५) तच्छ्रुत्वा =
१६) प्रत्यागच्छदवदच्च =
१७) भयमुक्ताश्चाजायन्त
प्रश्न ५ संधी करा.
१) चकिता: + ते =
२) पुन: + पुन: =
३) पुन: + घण्टाम् =
४) च + कुर्वन् =
५) चित्रपुरस्था: + नागरिका =
६) भयाकुला: + ते =
७) ते + अचिन्तयन् =
८) राक्षस: + वर्तते
९) य: + मनुष्यान् =
१०) पौरजना: + अन्यत्र =
११) वानरा: + एव =
१२) सा + अपश्यत् =
१३) वानरेभ्य: + मधुराणि =
१४) फलानि + अयच्छत् =
१५) तावत् + एव =
१६) घण्टाकर्ण: + हत: + मया =
१७) न + आकर्णयन् =
उत्तरे
आसीत् चित्रपुरं नाम किमपि नगरं श्रीपर्वतस्य समीपे । ‘पर्वतस्य शिखरप्रदेशे घण्टाकर्णो नाम राक्षस: प्रतिवसती’ ति जनप्रवादोऽवर्तत ।
अर्थ - चित्रपूर नावाने एक नगर श्रीपर्वताच्या जवळ होते. पर्वताच्या शिखरप्रदेशात घंटाकर्ण नावाचा राक्षस रहातो असा जनप्रवाद होता.
अथैकदा कश्चन चौर: घण्टामेकां चोरयित्वा वनं गतो व्याघ्रेण च हत: । तदा सा घण्टा वन एवापतत् । अन्यस्मिन् दिने केचन वानरास्तत्रागच्छन् । कुतुहलेन तां घण्टां हस्ते धृत्वाधुन्वन् । अकस्मादेव घण्टानादोऽजायत । घण्टानादेन चकितास्ते पुनर्पुनो घण्टामधुन्वन् घण्टानादं चाकुर्वन् ।
अर्थ - एकदा एक चोर एक घंटा चोरून वनात गेला व तो एका वाघाकडून ठार मारला गेला होता. तेव्हापासून ती घंटा तेथेच पडलेली होती. दुसर्या दिवशी काही वानर तेथे आले. कुतूहलाने त्यांनी घंटा हातात घेऊन हलवली. तेव्हा अकस्मात घंटेचा आवाज झाला. घंटानाद झाल्यावर आश्चर्यचकित झालेले ते पुन्हा पुन्हा ती घंटा हलवत होते व घंटेचा आवाज करत होते.
चित्रपुरस्था नागरिका वारं वारं पर्वतशिखराप्रदेशात् घण्टानादमाकर्णयन् । भयाकुलास्तेऽचिन्तयन्, “नूनं शिखरप्रदेशे घण्टाकर्णो नाम राक्षसो वर्तते यो मनुष्यान् खादति घण्टां च वादयति । एवं च भीत्या पौरजना अन्यत्र गन्तुं प्रारभन्त ।
अर्थ - चित्रपुरमधील नागरीक वारंवार पर्वताच्या शिखरप्रदेशावरून येणारा घंटानाद ऐकत होते. भयभीत झालेले ते विचार करू लागले, “खरोखरच पर्वताच्या शिखरावर घंटाकर्ण नावाचा राक्षस रहातो जो मनुष्यांना खातो व घंटा वाजवतो.” आणि त्यामुळे नागरीक भीतीने दुसरीकडे जाऊ लागले.
तदा चिन्ताकुलो नृप उदघोषयत् “यो घण्टाकर्णं नाशयेत् तस्मै विपुलं सुवर्णं यच्छेयमहमी” ति । तच्छ्रुत्वा काचन वृद्धा वनं गता । तत्र च कंचित् कालं निभृतमतिष्ठत् । ‘वानरा एव घण्टां वादयन्ति” इति साऽपश्यत् ।
अर्थ - तेव्हा चिंतातूर झालेला राजाने घोषणा केली, जो घंटाकर्णाला ठार मारेल त्याला मी पुष्कळ सुवर्ण देईन. ते ऐकून एक वृद्ध स्त्री वनात गेली. तेथे ती काही काळ गप्प थांबून राहिली. वानरच घंटा वाजवत आहेत ही गोष्ट तिने पाहिली.
अन्येद्यु: वानरेभ्यो मधुराणि फलान्ययच्छत् । यावत् ते फलभक्षणमग्ना: संजाता: तावदेव तां घण्टामादाय प्रमुदिता सा नृपं प्रत्यागच्छदवदच्च, “राजन्, घण्टाकर्णो हतो मया” इति । भूप: तस्यै प्रभूतं सुवर्णमयच्छत् ।
अर्थ - दुसर्या दिवशी तिने वानरांना गोड फळे दिली. जेव्हा ते (वानर) फळे खाण्यात मग्न झाले तेवढ्यात तिने ती घंटा घेऊन आनंदित झाली व राजाकडे येऊन म्हणाली, “हे राजा, मी घंटाकर्णाला ठार मारले.” राजाने तिला पुष्कळ धन दिले.
तत: प्रभृति पौरजना: घण्टारवं नाकर्णयन् भयमुक्ताश्चाजायन्त ।
अर्थ - तेव्हापासून नागरीक घंटेचा आवाज ऐकला नाही व ते भीतीतून मुक्त झाले.
स्वाध्याय़ - उत्तरे
प्रश्न १) खालील प्रश्नांची उत्तरे द्या.
१) क: जनप्रवाद: आसीत् ?
उत्तर - पर्वतस्य शिखरप्रदेशे घण्टाकर्णो नाम राक्षस: प्रतिवसति इति जनप्रवाद: आसीत् ।
२) चौरेण किं कृतम् ?
उत्तर - चौर: घण्टामेकां चोरयित्वा वनं गत: ।
३) व्याघ्रेण क: हत: ?
उत्तर - व्याघ्रेण चौर: हत: ।
४) तत्रस्था: वानरा: किमकुर्वन् ?
उत्तर - पतितां तां घण्टाम् हस्ते धृत्वा वानरा: अधुन्वन् ।
५) वानरा: किमर्था: चकिता: अभवन् ?
उत्तर - घण्टानादेन वानरा: चकिता: अभवन् ।
६) चित्रपुरस्था: नागरिका: किमर्थं भयभीता: अजायन्त ?
उत्तर - चित्रपुरस्था नागरिका वारं वारं पर्वतशिखराप्रदेशात् घण्टानादमाकर्णयन् । अत: ते भयाकुला: अजायन्त
७) राजा किमर्थं चिन्ताकुल: अभवत् ?
उत्तर - घण्टाकर्णात् भयभीता: पौरजना भीत्या अन्यत्र गन्तुं प्रारभन्त । अत: राजा चिन्ताकुल: अभवत् ।
८) राजा किम् उदघोषयत् ?
उत्तर - चिन्ताकुल: नृप: उदघोषयत् “य: घण्टाकर्णं नाशयेत् तस्मै विपुलं सुवर्णं यच्छेयमहम्” ।
९) वृद्धया वने किं दृष्टम् ?
उत्तर - वृद्धया वने दृष्टं यत् वानरा: एव घण्टां वादयन्ति ।
१०) वृद्धया कथं चातुर्यं प्रदर्शितम् ?
उत्तर - अन्येद्यु: बृद्धा वानरेभ्य: मधुराणि फलान्ययच्छत् । यावत् ते फलभक्षणमग्ना: संजाता: तावदेव सा तां घण्टामादाय आगच्छत् ।
१११) स्वयम् अध्ययनार्थ पाठ वृद्धाया: चातुर्यम् उत्तरे
प्रश्न २ रा प्रयोग बदला.
१) चौर: व्याघ्रेण हिंसित: ।
चौरं व्याघ्र: अहिंसत् ।
२) वानरा: घण्टानादं अकुर्वन् ।
वानरै: घण्टानाद: अक्रियत / कृत: ।
३) नागरिका घण्टानादमाकर्णयन् ।
नागरिकै: घण्टानाद: आकर्ण्यत / आकर्णित: ।
४) तेऽचिन्तयन् ।
तै: अचिन्त्यत / चिन्तितम् ।
५) राक्षस: मनुष्यान् खादति ।
राक्षसेन मनुष्या: खाद्यन्ते ।
६) क: घण्टाकर्णं नाशयेत् ?
केन घण्टाकर्ण: नाश्येत / नाशयितव्य: ।
७) तस्मै विपुलं सुवर्णं यच्छेयमहम् ।
तस्मै विपुलं सुवर्णं दीयेत ।
८) सा वानरान् अपश्यत् ।
तया वानरा: अदृश्यन्त / दृष्टा: ।
९) सा वानरेभ्य: फलानि अयच्छत् ।
तया वानरेभ्य: फलानि अदीयन्त / दत्ता: ।
१०) सा नृपं अभणत् ।
तया नृप: अभण्यत / भणित: ।
११) मया घण्टाकर्ण: हत: ।
अहं घण्टाकर्णं अहनम् ।
१२) पौरजना: घण्टारवं नाकर्णयन् ।
पौरजनै: घण्टारव: न आकर्ण्यत / आकर्णित: ।
प्रश्न ३ रा कंसातील सूचनांनुसार बदल करा.
१) आसीत् चित्रपुरं नाम किमपि नगरं श्रीपर्वतस्य समीपे । (अस् धातू ऐवजी वृत्-वर्त् धातू वापरा.)
अवर्तत चित्रपुरं नाम किमपि नगरं श्रीपर्वतस्य समीपे ।
२) कश्चन चौर: घण्टामेकां चोरयित्वा वनं अगच्छत् । (पूर्वकालवाचक काढा.)
कश्चन चौर: घण्टामेकां अचोरयत् वनं च अगच्छत् ।
३) वानरा: तत्र ----- । (आ + गम् प्रथम भूतकाळ वापरा.)
वानरा: तत्र आगच्छन् ।
४) वानरा: कुतुहलेन तां घण्टां हस्ते धृत्वाधुन्वन् । (पूर्वकालवाचक काढा.)
वानरा: कुतुहलेन तां घण्टां हस्ते अधारयन् अधुन्वन् व ।
५) वानरा: ---- चकिता: अभवन् (घण्टानाद)
वानरा: घण्टानादेन चकिता: अभवन् ।
६) पौरजना: --- अन्यत्र --- प्रारभान्त । (भय, या चे हेत्वर्थक)
पौरजना: भयेन अन्यत्र यातुं प्रारभान्त ।
७) राज्ञी --- अभवत् । (चिन्ताकुल)
राज्ञी चिन्ताकुला अभवत् ।
८) सा --- कृते ---- फलानि अयच्छत् । (कपि, मिष्ट)
सा कपीनाम् कृते मिष्टानि फलानि अयच्छत् ।
९) सा घण्टामादाय प्रत्यागच्छत् । (पूर्वकालवाचक काढा.)
सा घण्टाम् आयच्छत् प्रत्यागच्छत् च ।
प्रश्न ४) संधी सोडवा.
१) घण्टाकर्णो नाम = घण्टाकर्ण: + नाम
२) प्रतिवसतीति = प्रतिवसति + इति
३) जनप्रवादोऽवर्तत = जनप्रवाद: + अवर्तत
४) अथैकदा = अथ + एकदा
५) घण्टामेकां = घण्टाम् + एकां
६) एवापतत् = एव + अपतत्
७) वानरास्तत्रागच्छन् = वानरा: + तत्र + आगच्छन्
८) धृत्वाधुन्वन् = धृत्वा + अधुन्वन्
९) अकस्मादेव = अकस्मात् + एव
१०) घण्टानादोऽजायत = घण्टानाद: + अजायत
११) चिन्ताकुलो नृप: = चिन्ताकुल: + नृप:
१२) नृप उदघोषयत् = नृप: + उदघोषयत्
१३) यो घण्टाकर्णं = य: + घण्टाकर्णं
१४) यच्छेयमहमीति = यच्छेयम् + अहम् + इति
१५) तच्छ्रुत्वा = तत् + श्रुत्वा
१६) प्रत्यागच्छदवदच्च = प्रत्यागच्छत् + अवदत् + च
१७) भयमुक्ताश्चाजायन्त = भयमुक्ता: + च + अजायन्त
प्रश्न ५ संधी करा.
१) चकिता: + ते = चकितास्ते
२) पुन: + पुन: = पुनर्पुन:
३) पुन: + घण्टाम् = पुनर्घण्टाम्
४) च + कुर्वन् = चाकुर्वन्
५) चित्रपुरस्था: + नागरिका = चित्रपुरस्था नागरिका
६) भयाकुला: + ते = भयाकुलास्ते
७) ते + अचिन्तयन् = तेऽचिन्तयन्
८) राक्षस: + वर्तते = राक्षसो वर्तते
९) य: + मनुष्यान् = यो मनुष्यान्
१०) पौरजना: + अन्यत्र = पौरजना अन्यत्र
११) वानरा: + एव = वानरा एव
१२) सा + अपश्यत् = सापश्यत्
१३) वानरेभ्य: + मधुराणि = वानरेभ्यो मधुराणि
१४) फलानि + अयच्छत् = फलान्ययच्छत्
१५) तावत् + एव = तावदेव
१६) घण्टाकर्ण: + हत: + मया = घण्टाकर्णो हतो मया
१७) न + आकर्णयन् = नाकर्णयन्
No comments:
Post a Comment