Wednesday, April 7, 2021

पाठ १०७ वा - स्वयं अध्ययनार्थ पाठ वानरस्य चातुर्यम् ।

 पाठ १०७ वा - स्वयं अध्ययनार्थ पाठ वानरस्य चातुर्यम्


एकस्मिन् नदीतटे जम्बुवृक्ष: अवर्तत तस्मिन् कोऽपि वानर: वसति स्म : नित्यं मधुराण्याम्रफलान्यखादत् तस्यां नद्यामेको मकरोऽपि प्रत्यवसत् : वानरस्य मित्रमासीत् वानर: मकरायापि मधुराणि जम्बुफलानि अयच्छत् क्वचित् मकरोऽपि कपिं विहारार्थं स्वपृष्ठे उपवेश्य नद्यामतरत्


एकदा मकर: स्वभार्यायै मधुराणि जम्बूफलान्यनयत् मकरस्य जाया फलान्यखादत् तत: साचिन्तयत् - ‘: प्रतिदिनमीदृशानि मधुराणि फलानि भक्षयति तस्य हृदयं कीदृशं मधुरं भवेत् अहं तत् केन प्रकारेन लभेइति


सा मकरमवदत्, “अहं तस्य कपे: हृदयमिच्छामि तत: मकर: नद्या: तटमगच्छत् कपि: तस्मै फलानि अयच्छत् तदनन्तरं कपि: मकरस्य पृष्ठे उपाविशत् यथापूर्वं तौ विहारार्थौ अगच्छताम् कपिना सह : नद्या: जले अतरत् नद्या: मध्ये : कपिमगदत्, “मम पत्नी तव हृदयमिच्छति चतुर: प्लवङ्म: शीघ्रमभाषत - “मम हृदयं त्वहं वृक्षे एवामुञ्चम् तदानेतुं मां पुनरपि नदीतटं नय मूर्ख: मकर: तथाचरत् तदा शाखामृग: सत्वरं वृक्षस्य विटपमारोहत् अभाषत मूर्ख, अपि हृदयं शरीरात् पृथग्वर्तते ? अद्यावयो: मैत्री समाप्तिमगच्छत्


स्वाध्याय


प्रश्न ) प्रयोग बदला 

) : नित्यं मधुराण्याम्रफलान्यखादत्  

) वानर: मकरायापि मधुराणि जम्बुफलानि अयच्छत्  

) एकदा मकर: स्वभार्यायै मधुराणि जम्बूफलान्यनयत्  

) मकरस्य जाया फलान्यखादत्  

) कपि: प्रतिदिनमीदृशानि मधुराणि फलानि भक्षयति

) सा मकरमभणत्

) अहं तस्य कपे: हृदयमिच्छामि

) कपि: तस्मै फलानि अयच्छत्  

) : कपिमगदत्

१०) मम पत्नी तव हृदयमिच्छति  

११) चतुर: प्लवङ्म: शीघ्रमभाषत

१२) मम हृदयं त्वहं वृक्षे एवामुञ्चम्

१३) मां पुनरपि नदीतटं नय



प्रश्न ) कंसातील सूचनांनुसार बदल करा.

) तत्र कोऽपि वानर: वसति स्म (स्म काढा).

) तस्यां नद्यामेको मकरोऽपि प्रत्यवसत् (स्म घाला. नदी ऐवजी तटिनी शब्द वापरा)

) : वानरस्य मित्रमासीत् (वानर ऐवजी वयस्य शब्द वापरा.)

) वानर: --- सह नद्यामतरत् (कपि)

) अहं --- हृदयं केन प्रकारेन लभेइति (कपि)

) ---- अनन्तरं कपि: मकरस्य पृष्ठे उपाविशत् (तद्)

) तौ विहारार्थौ अगच्छताम् (स्म घाला)

) शाखामृग: सत्वरं वृक्षस्य विटपमारोहत् अभाषत ( काढा)

) हृदयं --- मां पुनरपि नदीतटं नय ( + नी चे हेत्वर्थक वापरा.)

१०) : नद्या: मध्ये गत्वा कपिमगदत् ( पूर्वकालवाचक काढा)


प्रश्न ) संधी सोडवा

) कोऽपि = 

) मधुराण्याम्रफलान्यखादत् = 

) नद्यामेको मकरोऽपि = 

) मित्रमासीत् = 

) मकरायापि = 

) जम्बूफलान्यनयत् = 

) साचिन्तयत् = 

) प्रतिदिनमीदृशानि = 

) तदानेतुं = 

१०) तथाचरत् = 


प्रश्न ) संधी करा. 

) जम्बुफलानि + अयच्छत् 

) मकर: + अपि 

) एव + अमुञ्चम् 

) पुन: + अपि 

) पृथक् + वर्तते = 

) अद्य + आवयो: = 


प्रश्न ) संस्कृतभाषया उत्तरत

) वानरमकरयो: मैत्री कीदृशी आसीत् ?

) मकरस्य भार्या किमचिन्तयत् ?

) मकर: भार्याया: इच्छापूर्तिं कर्तुं किमकरोत् ?

) वानरेण स्वप्राणा: कथं रक्षिता: ?



उत्तरे 


प्रश्न ) कंसातील सूचनांनुसार बदल करा.


) तत्र कोऽपि वानर: वसति स्म (स्म काढा).

उत्तर - तत्र कोऽपि वानर: अवसत्  


) तस्यां नद्यामेको मकरोऽपि प्रत्यवसत् (स्म घाला. नदी ऐवजी तटिनी शब्द वापरा)

उत्तर - तस्यां नद्यामेको मकरोऽपि प्रतिवसति स्म  


) : वानरस्य मित्रमासीत् (वानर ऐवजी वयस्य शब्द वापरा.)

उत्तर - : वयस्यस्य मित्रमासीत्  


) वानर: --- सह नद्यामतरत् (कपि)

उत्तर - वानर: कपिना सह नद्यामतरत्  


) अहं --- हृदयं केन प्रकारेन लभे इति (कपि)

उत्तर - अहं कपे: हृदयं केन प्रकारेन लभेइति  

) ---- अनन्तरं कपि: मकरस्य पृष्ठे उपाविशत् (तद्)

उत्तर - तस्मात् अनन्तरं कपि: मकरस्य पृष्ठे उपाविशत्  


) तौ विहारार्थौ अगच्छताम् (स्म घाला)

उत्तर - तौ विहारार्थौ गच्छत: स्म  


) शाखामृग: सत्वरं वृक्षस्य विटपमारोहत् अभाषत ( काढा)

उत्तर - शाखामृग: सत्वरं वृक्षस्य विटपमारुह्य अभाषत  


) हृदयं --- मां पुनरपि नदीतटं नय ( + नी चे हेत्वर्थक वापरा.)

उत्तर - हृदयं आनेतुं मां पुनरपि नदीतटं नय  


१०) : नद्या: मध्ये गत्वा कपिमगदत् ( पूर्वकालवाचक काढा)

उत्तर - : नद्या: मध्ये अगच्छत् कपिमगदत्  


प्रश्न ) संधी सोडवा

) कोऽपि = : + अपि

) मधुराण्याम्रफलान्यखादत् = मधुराणि + आम्रफलानि + अखादत् 

) नद्यामेको मकरोऽपि = नद्याम् + एक: + मकर: + अपि 

) मित्रमासीत् = मित्रम् + आसीत् 

) मकरायापि = मकराय + अपि

) जम्बूफलान्यनयत् = जम्बूफलानि + अनयत् 

) साचिन्तयत् = सा + अचिन्तयत् 

) प्रतिदिनमीदृशानि = प्रतिदिनम् + ईदृशानि 

) तदानेतुं = तद् + आनेतुम् 

१०) तथाचरत् = तथा + अचरत् 


प्रश्न ) संधी करा. 

) जम्बुफलानि + अयच्छत् = जम्बूफलान्ययच्छत्

) मकर: + अपि = मकरोऽपि

) एव + अमुञ्चम् = एवामुञ्चम्

) पुन: + अपि = पुनरपि

) पृथक् + वर्तते = पृथग्वर्तते 

) अद्य + आवयो: = अद्यावयो: 


प्रश्न ) संस्कृतभाषया उत्तरत

) वानरमकरयो: मैत्री कीदृशी आसीत् ?

उत्तर - वानर: मकरस्य मित्रम् आसीत् वानर: मकराय जम्बूफलानि यच्छति स्म मकर: अपि तं स्वपृष्ठे समुपवेश्य विहारार्थं नद्या अतरत् एवं तयो: प्रगाढा मैत्री आसीत्

 

) मकरस्य भार्या किमचिन्तयत् ?

उत्तर - मकर: भार्याया: कृते मकरेण दत्तानि जम्बूफलानि अनयत् तानि फलानि खादित्वा मकरस्य भार्या अचिन्तयत्. “‘: प्रतिदिनमीदृशानि मधुराणि फलानि भक्षयति तस्य हृदयं कीदृशं मधुरं भवेत् अहं तत् केन प्रकारेन लभेइति


) मकर: भार्याया: इच्छापूर्तिं कर्तुं किमकरोत् ?

उत्तर - मकर: भार्याया: इच्छापूर्ति कर्तुं वानरं स्वपृष्ठे समुपवेश्य नद्याम् अतरत् : तं वानरं भार्याया: समीपं नेतुम् ऐच्छत् नद्या: मध्यभागे गत्वा : कपिम् अवदत् मम भार्या तव हृदयम् इच्छतीति

 

) वानरेण स्वप्राणा: कथं रक्षिता: ?

उत्तर - मकरस्य हेतुम् आकर्ण्य वानर: सङ्कटम् अपश्यत् झटिति : मकरम् अवदत्, “मम हृदयं तु अहं वृक्षे एव अमुञ्चम् तदानेतुं पुनरपि मा नदीतटं नय मकर: वानर: नदीतटम् अनयत् सत्वरं वानर: वृक्षमारोहत् इत्थं तेन स्वप्राणा: रक्षिता:

No comments:

Post a Comment

पाठ १२१ वा - स्वयं अध्ययनासाठी सुभाषिते

पाठ   १२१   वा  -  स्वयं अध्ययनासाठी सुभाषिते १ ) अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।   अजापुत्रं बलिं दद्यात् देवो दुर्...