पाठ १०६-१ - असंहता विनश्यन्ति । (कर्मणी भूतकालवाचक विशेषणे)
कस्मिंश्चित् सरोवरे भारण्डनामैकोदरो द्विमुख: पक्षी प्रतिवसति स्म । तेन च समुद्रतीरे परिभ्रमता तरङ्गाक्षिप्तं किञ्चिदमृतकल्पं फलं संप्राप्तम् । एकेन मुखेन तद् भक्षयन् भारण्डोऽवदत्, ‘अहो बहूनि मयामृतप्रायाणि समुद्रकल्लोलाहृतानि फलानि भक्षितानि । परमपूर्वोऽस्यास्वाद: । अमृतमयमिदं फलं दैवेनैव मे प्रदत्तम्’ इति । अर्धं फलं भक्षयित्वावशिष्टं फलं भारण्ड्यै दातुमैच्छत् । द्वितीयं मुखं तु फलावशेषं खादितुं समुत्सुकमासीत् । तदा प्रथमेन मुखेनाभिहितम्, “मित्र, आवयोस्तावदेकमेवोदरम् । तत् किं पृथक् भक्षितेन ? अनेन फलार्धेन भार्या तुष्यत्विति’ । एवं प्रथममुखस्य वचनादनन्तरं भारण्डोऽवशिष्टं फलं पत्न्यै प्रायच्छत् । सा च तेनातीव प्रहृष्टा ।
या कथानकाचा उरलेला भाग आपण उद्या पाहू.
स्वाध्याय -
प्रश्न १) उत्तराणि लिखत ।
१) भारण्डखगस्य किं वैशिष्ट्यम् ?
२) भारण्डेन किं संप्राप्तम् ? कदा ?
३) भारण्ड: नाम पक्षी कुत्र प्रत्यवसत् ?
४) सम्प्राप्तं फलं आस्वाद्य भारण्ड: किमचिन्तयत् ?
५) द्वितीयं मुखं किमर्थं समुत्सुकमासीत् ?
६) भारण्ड: द्वितीयं मुखं किमवदत् ?
प्रश्न २) - प्रयोग बदला
१) भारण्डपक्षिणा अमृतकल्पं फलं लब्धम् ।
२) मया बहूनि अमृतप्रायाणि फलानि भक्षितानि ।
३) अमृतमयमिदं फलं दैवेनैव मे प्रदत्तम् ।
४) भारण्ड: अभणत् ।
५) भारण्ड: अर्धं फलं पत्न्यै अयच्छत् ।
६) प्रथमेन मुखेन भाषितम् ।
७) अनेन फलेन भार्या तुष्यतु ।
प्रश्न ३) सूचनांनुसार बदल करा.
१) भारण्ड: नाम पक्षी प्रतिवसति स्म । (स्म काढा)
२) तद् फलं भक्षयित्वा भारण्डोऽवदत् । (पूर्वकालवाचक काढा.)
३) अपूर्व: --- फलस्य आस्वाद: (एतद्)
४) अर्धं फलं खादित्वावशिष्टं फलं भारण्ड्यै दातुमैच्छत् । (पूर्वकालवाचक काढा.)
५) द्वितीयं मुखं तु फलावशेषं ---- समुत्सुकमासीत् । (भक्ष् धातूचे हेत्वर्थक वापरा).
६) ---- फलार्धेन भार्या तुष्यत्विति । (इदम्, तुष् धातूऐवजी तृप् धातू वापरा)
७) प्रथममुखस्य ----- अनन्तरं भारण्डोऽवशिष्टं पलं पत्न्यै प्रायच्छत् । (वचन)
प्रश्न ४) संधी सोडवा -
१) भारण्डनामैकोदरो द्विमुख: =
२) किञ्चिदमृतकल्पं =
३) भारण्डोऽवदत् =
४) मयामृतप्रायाणि =
५) परमपूर्वोऽस्यास्वाद: =
६) अमृतमयमिदं =
७) दैवेनैव =
८) भक्षयित्वावशिष्टम् =
९) दातुमैच्छत् =
१०) समुत्सुकमासीत् =
११) फलमास्वादितम् =
१२) द्वयोरप्यावयो: =
प्रश्न ५) संधी सोडवा.
१) मुखेन + अभिभाषितम् =
२) आवयो: + तावद्
३) एकम् + एव + उदरम्
४) तुष्यतु + इति =
५) वचनात् + अनन्तरं =
६) भारण्ड: + अवशिष्टं =
७) तेन + अतीव
८) दिनात् + एव
भाषांतर -
एका सरोवरामधे भारंड नावाचा एकच पोट पण दोन मुखे असलेला पक्षी रहात होता. (एकदा) त्याने समुद्राच्या काठी भटकत असता समुद्राच्या लाटांनी आणून टाकलेले एक अमृतासारखे गोड फळ प्राप्त केले. एका मुखाने ते खात भारंड म्हणाला, “अहो, मी (पूर्वी) समुद्राच्या लाटांनी आणलेली अमृतासारखी पुष्कळ गोड फळे खाल्ली. पण या फळाचा स्वाद अपूर्वच आहे. अमृतासारखे हे गोड फळ मला दैवानेच प्राप्त झाले आहे.” अर्धे फळ खाऊन उरलेले अर्धे फळ तो (आपली पत्नी) भारंडीला देऊ इच्छित होता. दुसरे मुख ते राहिलेले फळ खाण्यास उत्सुक होते. तेव्हा पहिले मुख म्हणाले, “ मित्रा, आपले पोट तर एकच आहे. तेव्हा (तू) वेगळे खाण्याची आवश्यकता काय ? या उरलेल्या फळाने आपली पत्नी संतुष्ट होऊ दे.” अशाप्रकारे पहिल्या मुखाच्या बोलण्यानंतर भारंड पक्षाने ते उरलेले फळ पत्नीला दिले. त्यामुळे ती अतिशय आनंदित झाली.
१०६-१) असंहता विनश्यन्ति । (कर्मणी भूतकालवाचक विशेषणे)
स्वाध्याय -
प्रश्न १) उत्तराणि लिखत ।
१) भारण्डखगस्य किं वैशिष्ट्यम् ?
उत्तर - भारण्ड: एकोदर: द्विमुख: खग: आसीत् ।
२) भारण्डेन किं संप्राप्तम् ? कदा ?
उत्तर - एकदा भारण्डेन किञ्चिदमृतकल्पं फलं संप्राप्तम् ।
३) भारण्ड: नाम पक्षी कुत्र प्रत्यवसत् ?
उत्तर - भारण्ड: कस्मिंश्चित् सरोवरे प्रत्यवसत् ।
४) सम्प्राप्तं फलं आस्वाद्य भारण्ड: किमचिन्तयत् ?
उत्तर - सम्प्राप्तं फलम् आस्वाद्य भारण्ड: अचिन्तयत्, ‘अहो अपूर्वमिदं फलम् । एतद् फलं दैवेन एव मे प्रदत्तम् । अर्धं फलं पत्न्यै यच्छामीति ।’
५) द्वितीयं मुखं किमर्थं समुत्सुकमासीत् ?
उत्तर - द्वित्तीयं मुखं अमृतकल्पं फलं खादितुं समुत्सुकमासीत् ।
६) भारण्ड: द्वितीयं मुखं किमवदत् ?
उत्तर - भारण्ड: द्वितीयं मुखमवदत्, ““मित्र, आवयोस्तावदेकमेवोदरम् । तत् किं पृथक् भक्षितेन ? अनेन फलार्धेन भार्या तुष्यत्विति’ ।
प्रश्न २) - प्रयोग बदला
१) भारण्डपक्षिणा अमृतकल्पं फलं लब्धम् ।
उत्तर - भारण्डपक्षी अमृतकल्पं फलम् अलभत ।
२) मया बहूनि अमृतप्रायाणि फलानि भक्षितानि ।
उत्तर - अहं बहूनि अमृतप्रायाणि फलानि अभक्षयम् ।
३) अमृतमयमिदं फलं दैवेनैव मे प्रदत्तम् ।
उत्तर - अमृतमयमिदं फलं दैवम् एव मे प्रायच्छत् ।
४) भारण्ड: अभणत् ।
उत्तर - भारण्डेन अभण्यत / भणितम् ।
५) भारण्ड: अर्धं फलं पत्न्यै अयच्छत् ।
उत्तर - भारण्डेन अर्धं फलं पत्न्यै अदीयत / दत्तम् ।
६) प्रथमेन मुखेन भाषितम् ।
उत्तर - प्रथमं मुखं अभाषत ।
७) अनेन फलेन भार्या तुष्यतु ।
उत्तर - अनेन फलेन भार्यया तुष्यताम् ।
प्रश्न ३) सूचनांनुसार बदल करा.
१) भारण्ड: नाम पक्षी प्रतिवसति स्म । (स्म काढा)
उत्तर - भारण्ड: नाम पक्षी प्रत्यवसत् ।
२) तद् फलं भक्षयित्वा भारण्डोऽवदत् । (पूर्वकालवाचक काढा.)
उत्तर - तद् फलं अभक्षयत् भारण्डोऽवदत् च ।
३) अपूर्व: --- फलस्य आस्वाद: (एतद्)
उत्तर - अपूर्व: एतस्य फलस्य आस्वाद: ।
४) अर्धं फलं खादित्वावशिष्टं फलं भारण्ड्यै दातुमैच्छत् । (पूर्वकालवाचक काढा.)
उत्तर - अर्धं फलं अखादत् अवशिष्टं फलं भारण्ड्यै दातुमैच्छत् च।
५) द्वितीयं मुखं तु फलावशेषं ---- समुत्सुकमासीत् । (भक्ष् धातूचे हेत्वर्थक वापरा).
उत्तर - द्वितीयं मुखं तु फलावशेषं भक्षयितुं समुत्सुकमासीत् ।
६) ---- फलार्धेन भार्या तुष्यत्विति । (इदम्, तुष् धातूऐवजी तृप् धातू वापरा)
उत्तर - अनेन फलार्धेन भार्या तुप्यत्विति ।
७) प्रथममुखस्य ----- अनन्तरं भारण्डोऽवशिष्टं पलं पत्न्यै प्रायच्छत् । (वचन)
उत्तर - प्रथममुखस्य वचनात् अनन्तरं भारण्डोऽवशिष्टं पलं पत्न्यै प्रायच्छत् ।
प्रश्न ४) संधी सोडवा -
१) भारण्डनामैकोदरो द्विमुख: = भारण्डनाम + एकोदर: + द्विमुख:
२) किञ्चिदमृतकल्पं = किञ्चित् + अमृतकल्पं
३) भारण्डोऽवदत् = भारण्ड: + अवदत्
४) मयामृतप्रायाणि = मया + अमृतप्रायाणि
५) परमपूर्वोऽस्यास्वाद: = परम् + अपूर्व: + अस्य + आस्वाद:
६) अमृतमयमिदं = अमृतमयम् + इदं
७) दैवेनैव = दैवेन + एव
८) भक्षयित्वावशिष्टम् = भक्षयित्वा + अवशिष्टम्
९) दातुमैच्छत् = दातुम् + ऐच्छत्
१०) समुत्सुकमासीत् = समुत्सुकम् + आसीत्
११) फलमास्वादितम् = फलम् + आस्वादितम्
१२) द्वयोरप्यावयो: = द्वयो: अपि + आवयो:
प्रश्न ५) संधी सोडवा.
१) मुखेन + अभिभाषितम् = मुखेनाभिभाषितम्
२) आवयो: + तावद् = आवयोस्तावद्
३) एकम् + एव + उदरम् = एकमेवोदरम्
४) तुष्यतु + इति = तुष्यत्विति
५) वचनात् + अनन्तम् = वचनादनन्तरम्
६) भारण्ड: + अवशिष्म् = भारण्डोऽवशिष्टम्
७) तेन + अतीव = तेनातीव
८) दिनात् + एव = दिनादेव
१०६-२) असंहता विनश्यन्ति । (कर्मणी भूतकालवाचक विशेषणे)
तत्फलास्वादाद्वञ्चितं द्वितीयं मुखं तद्दिनादेव सोद्वेगं सविषादं तिष्ठति । अथान्येद्यु: द्वितीयमुखेन विषफलं सम्प्राप्तम् । तद् गृहीत्वा तन्मुखमपरं वदनमभणत्, ‘भो: स्वार्थिन्, मह्यमदत्वा त्वया तदमृतमयं फलमास्वादितम् । सम्प्रति मया विषफलमासादितम् । त्वयावमानितोऽहं फलमेतद् स्वयमेव भक्षयामीति’ । तदा प्रथमेन मुखेन भाषितं, ‘मा मैवं कुरु । एवं कृते द्वयोरप्यावयोर्विनाशो भविष्यति ।’ एवं वदतोऽपि तस्य अवमानान्धेन द्वितीयेन मुखेन तत्फलं भक्षितमेव । तेन भारण्डो मृत: । द्वेऽपि ते मुखे विनष्टे । अत एवोच्यते -
एकोदरा: पृथग्ग्रीवा अन्यान्यफलभक्षिण: ।
असंहता विनश्यन्ति भारण्डा इव पक्षिण: ।
स्वाध्याय -
प्रश्न १) उत्तराणि लिखत ।
१) द्वितीयं मुखं किमर्थं दु:खितमभवत् ?
२) द्वितियेन मुखेन किं खादितम् ?
३) द्वितीयं मुखं किं अवदत् ?
४) प्रथमेन मुखेन किमुत्तरं दत्तम् ? ।
५) एताया: कथाया: किं तात्पर्यम् ?
प्रश्न २) - प्रयोग बदला
१) द्वितीयमुखेन विषफलं सम्प्राप्तम् ।
२) त्वया तदमृतमयं फलमास्वादितम् ।
३) मया विषफलमासादितम्
४) त्वयामानितोऽहं फलमेतद् स्वयमेव भक्षयामि ।
५) प्रथमेन मुखेन भणितम् ।
६) मा मैवं कुरु ।
७) द्वितीयेन मुखेन तत्फलं भक्षितमेव ।
प्रश्न ३) सूचनांनुसार बदल करा.
१) तद् आदाय तन्मुखमपरं वदनमभणत् । (पूर्वकालवाचक काढा.)
प्रश्न ४) संधी सोडवा -
१) वदतोऽपि =
२) भारण्डो मृत: =
३) अत एवोच्यते =
४) असंहता विनश्यन्ति =
प्रश्न ५) संधी सोडवा.
१) अथ + अन्येद्यु:
२) तद् + मुख + अपरम् =
३) मह्यम् + अदत्वा =
४) भक्षयामि + इति =
५) विनाश: + भविष्यति =
६) द्वे + अपि
७) पृथक् + ग्रीवा =
८) भारण्डा: + इव
भाषांतर
त्या फळाच्या आस्वादापासून वंचित राहिलेले ते दुसरे मुख त्या दिवसापासून अतिशय दु:खी रहात असे. नंतर एके दिवशी त्याला विषफळ मिळाले. ते घेऊन ते दुसर्या मुखाला म्हणाले, “ हे स्वार्थी (मुखा), मला न देताच तू ते अमृतयुक्त फळ चाखले होतेस. आता मला विषफळ मिळाले आहे. तुझ्याकडून अपमान झालेला असल्यामुळे मी हे आता विषफळ खाणार आहे. तेव्हा पहिले मुख म्हणाले, ‘(अरे) असे करू नकोस. असे केलेस तर दोघांचाही नाश होईल.’ अशाप्रकारे (पहिल्या मुखाने सांगून सुद्धा अपमानाने आंधळा झालेल्या त्या दुसर्या मुखाने ते फळ खाल्लेच. त्यामुळे भारण्ड पक्षी मृत्यु पावला्. ती दोन्ही मुखे नाश पावली. म्हणूनच म्हटले आहे -
एकच पोट पण वेगवेगळी मान असलेल्या व वेगवेगळी फळे खाणार्या भारण्ड पक्षाप्रमाणे एकी नसलेल्यांचा नाश होतो.
स्वाध्याय -
प्रश्न १) उत्तराणि लिखत ।
१) द्वितीयं मुखं किमर्थं दु:खितमभवत् ?
उत्तर - अमृतकल्पं फलं प्रथमेन मुखेन द्वितीयाय मुखाय नायच्छत् । अत: द्वितीयं मुखं दु:खीतम् अभवत् ।
२) द्वितियेन मुखेन किं खादितम् ?
उत्तर - द्वितीयेन मुखने विषफलं खादितम् ।
३) द्वितीयं मुखं किं अवदत् ?
उत्तर - द्वितीयं मुखम् अवदत् ‘भो: स्वार्थिन्, मह्यमदत्वा त्वया तदमृतमयं फलमास्वादितम् । सम्प्रति मया विषफलमासादितम् । त्वयावमानितोऽहं फलमेतद् स्वयमेव भक्षयामीति’ ।
४) प्रथमेन मुखेन किमुत्तरं दत्तम् ? ।
उत्तर - प्रथमेन मुखेन उत्तरं दत्तम्, ‘मा मैवं कुरु । एवं कृते द्वयोरप्यावयोर्विनाशो भविष्यति ।’
५) एताया: कथाया: किं तात्पर्यम् ?
उत्तर - असंहता: जना: भारण्डपक्षिण: इव विनश्यन्ति ।
प्रश्न २) - प्रयोग बदला
१) द्वितीयमुखेन विषफलं सम्प्राप्तम् (लब्धम्)।
उत्तर - द्वितीयं मुखं विषफलं सम्प्राप्नोत् (अलभत)।
२) त्वया तदमृतमयं फलमास्वादितम् ।
उत्तर - त्वं विषफलं अस्वादथा: ।
३) मया विषफलमासादितम्
उत्तर - अहं विषफलम् आसादयम् ।
४) अहं फलमेतद् स्वयमेव भक्षयामि ।
उत्तर - मया फलं एतद् स्वयमेव भक्ष्यते ।
५) प्रथमेन मुखेन भणितम् ।
उत्तर - प्रथमं मुखं अभणत् ।
६) मा मैवं कुरु ।
उत्तर - मा मैवं क्रियताम् ।
७) द्वितीयेन मुखेन तत्फलं भक्षितमेव ।
उत्तर - द्वितीयं मुखं तत्फलं अभक्षयत् ।
प्रश्न ३) सूचनांनुसार बदल करा.
१) तद् आदाय तन्मुखमपरं वदनमभणत् । (पूर्वकालवाचक काढा.)
उत्तर - तद् आयच्छत् तन्मुखमपरं वदनमभणत् च ।
प्रश्न ४) संधी सोडवा -
१) वदतोऽपि = वदत: + अपि
२) भारण्डो मृत: = भरण्ड: + मृत:
३) अत एवोच्यते = अत: + एव + उच्यते
४) असंहता विनश्यन्ति = असंहता: + विनश्यन्ति
प्रश्न ५) संधी सोडवा.
१) अथ + अन्येद्यु: = अथान्येद्यु:
२) तद् + मुख + अपरम् = तन्मुखमपरम्
३) मह्यम् + अदत्वा = मह्यमदत्वा
४) भक्षयामि + इति = भक्षयामीति
५) विनाश: + भविष्यति = विनाशो भविष्यति
६) द्वे + अपि = द्वेऽपि
७) पृथक् + ग्रीवा = पृथग्ग्रीवा
८) भारण्डा: + इव = भारण्डा इव
No comments:
Post a Comment