पाठ ११३-१ वा - सर्वस्वदक्षिणयज्ञवर्णनम् भाग १
पुनरपि राजा सिंहासने समुपवेष्टुं गच्छति । ततोऽन्या पुत्तलिका समवदत्, “भो: राजन्, एतत्सिंहासने तेनैव अध्यासितव्यं यस्य विक्रमतुल्यमौदार्यमस्ति ।” भोजेनोक्तम्, “भो: पुत्तलिके, कथय तस्यौदार्यम् ।” सा वदति, “राजन्, यस्वर्थिनां मनोरथं पूरयति तस्येप्सितं देव: सम्पादयति । यच्चोक्तम् -
उत्साहसम्पन्नमदीर्घसूत्रं (त. त. ज. ग. ग)
क्रियाविधिज्ञं व्यसनेष्वसक्तम् । (ज, त, ज, ग, ग)
शूरं कृतज्ञं दृढनिश्चयं च (त, त, ज. ग. ग)
लक्ष्मी: स्वयं य़ाति निवासहेतो: ॥ (ज, त, ज, ग, ग) (उपजाति)
एवं सकलगुणनिवास: स विक्रमो राजा एकदा स्वमनस्यचिन्तयत्, “अहो, असारोऽयं संसार:, कदा कस्य किं भविष्यतीति न ज्ञायते । यच्चोपार्जितं वित्तं तदपि दानभोगैर्विना सफलं न भवति । तथा चोक्तम्
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तटाकोदरसंस्थानां परिवाह इवाम्भसाम् ॥ (अनुष्टुभ्)
अपि च
दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्य: । (१२-१८)
पश्येह मधुकरीणां, सञ्चितमर्थं हरन्त्यन्ये ॥ (१२-१५) (आर्या)
इत्येवं विचार्य सर्वस्वदक्षिणयज्ञं कर्तुमुपक्रान्तवान् । तत: शिल्पिभिरतीव मनोहरो मण्डप: कारित: । सर्वापि यज्ञसामग्री समाहृता । देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूता: । तस्मिन्नवसरे कश्चिद्ब्राह्मण: समुद्राह्वानार्थं समुद्रतीरे प्रेषित: । सोऽपि समुद्रतीरं गत्वा गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत्, “भो: समुद्र, विक्रमार्को राजा यज्ञं करोति । तेन प्रेषोतोऽहं त्वामाह्वातुं समागत: ।” इति जलमध्ये पुष्पाञ्जलिं दत्वा क्षणं स्थित: । कोऽपि तस्य प्रत्युत्तरं न ददौ । तत: उज्जयिनीं यावत्प्रत्यागच्छति तावद्देदीप्यमानशरीर: समुद्रो ब्राह्मणरूपी सन् तमागत्यावदत्, “भो ब्राह्मण, विक्रमेणास्मानाह्वातुं प्रेषितस्त्वं, तर्हि तेन यास्माकं सम्भावना कृता सा प्राप्तैव । एतदेव सुहृदो लक्षणं यत्समये दानमानादि क्रियते । उक्तं च -
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ (अनुष्टुभ्)
११३-२) सर्वस्वदक्षिणयज्ञवर्णनम् भाग २
दूरस्थितानां मैत्री नश्यति समीपस्थानां वर्धते इति न वाच्यम् ।
गिरौ कलापी गगने पयोद: (ज, त, ज, ग, ग)
लक्षान्तरेऽर्कश्च जले च पद्मम् । (त, त, ज ग, ग)
इन्दुर्द्विलक्षे कुमुदस्य बन्धु- (ज. त. ज ग. ग)
र्यो यस्य मित्रं नहि तस्य दूरम् ॥ (त, त, ज, ग, ग) (उपजाति)
तस्मै राज्ञे व्ययार्थं रत्नचतुष्टयं दास्यामि । एतेषां माहात्म्यं - एकं रत्नं यद्वस्तु स्मर्यते तद्ददाति । द्वितीयेन रत्नेन भोजनादिकममृततुल्यमुत्पद्यते । तृतीयरत्नाच्चतुरङ्गबलं भवति । चतुर्थाद्रत्नाद्दिव्याभरणानि जायन्ते । तदेतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छेति ।
ततो ब्राह्मणस्तानि रत्नानि गृहीत्वा उज्जयिनीम् यावदागतस्तावद्यज्ञसमाप्तिर्जाता । राजावभृथस्नानं कृत्वा सर्वानर्थिजनान् परिपूर्णमनोरथानकरोत् । ब्राह्मणो राजानं दृष्ट्वा रत्नान्यर्पयित्वा प्रत्येकं तेषां गुणकथनमकरोत् । ततो राजावदत्, “भो ब्राह्मण, भवान् यज्ञदक्षिणाकालं व्यतिक्रम्य समागत: । मया सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषित: । तर्हि त्वमेतेषां रत्नानां मध्ये यत्तुभ्यं रोचते तद्गृहाणेति” । ब्राह्मणेनोक्तम्, ‘गृहं गत्वा गृहिणीं, पुत्रं, स्नुषां च पृष्ट्वा सर्वेभ्यो यद्रोचते तद्ग्रहीष्यामीति” । राज्ञोक्तं तथा कुरु ।” ब्राह्मणोऽपि स्वगृहमागत्य सर्वं वृत्तान्तं तेषामग्रेऽकथयत् । पुत्रेणोक्तं, ‘यद्रत्नं चतुरङ्गबलं ददाति तद्ग्रहीष्याम: । यत: सुखेन राज्यं कर्तुमर्हिष्याम: । पित्रोक्तं, बुद्धिमता राज्यं न प्रार्थनीयम् । पुन: पिता वदति, यस्माद्धनं लभते तद् गृहाण । धनेन सर्वमपि लभ्यते ।’ भार्ययोक्तं ‘यद्रत्नं षड्रसान् सूते तद्गृह्यताम् । सर्वेषां प्राणिनामन्नेनैव प्राणधारणं भवति ।” स्नुषयोक्तं यद्रत्नं रत्नाभरणादिकं सूते तद् ग्राह्यम् ।”
एवं चतुर्णां परस्परं विवाद: लग्न: । ततो ब्राह्मणो राजसमीपमागत्य चतुर्णां विवादवृत्तान्तमकथयत् । राजापि तच्छ्रुत्वा तस्मै ब्राह्मणाय चत्वार्यपि रत्नानि ददौ ।
इति कथां कथयित्वा पुत्तलिका राजानमवदत्, “भो राजन्, त्वय्येवंविधं सहजमौदार्यं विद्यते चेदस्मिन् सिंहासने समुपविश ।” तच्छ्रुत्वा राजा तूष्णीमासीत् ।
(द्वात्रिंशत्पुत्तलिका तृतीयोपाख्यानम्)
११३-१) सर्वस्वदक्षिणयज्ञवर्णनम् भाग १ प्रश्न
प्रश्न १) या पाठातील क्रियापदांची काळ, अव्यये, विशेषणे या विभागात विभागणी करा.
प्रश्न २) संस्कृतमधे प्रश्नांची उत्तरे द्या.
१) अन्या पुत्तलिका राजानं किम् अवदत् ?
२) स्वयं लक्ष्मी: निवासाय कं प्रति गच्छति ?
३) राजा स्वमनसि किमचिन्तयत् ?
४) वित्तं कथं रक्ष्यते ?
५) कस्य विषय सञ्चय: न कर्तव्य: ? किमर्थम् ?
६) राजा किं कर्तुम् उपक्रान्तवान् ?
७) यज्ञस्य कृते राज्ञा किं किं कृतम् ?
८) राज्ञा ब्राह्मण: कुत्र प्रेषित: ? किमर्थम् ?
९) समुद्रतीरे गत्वा ब्राह्मणेन किं कृतम् ?
१०) समुद्र: ब्राह्मणं किमवदत् ?
११) किं सुहृद: लक्षणम् ?
प्रश्न ३) प्रयोग बदला.
१) अन्या पुत्तलिका अभाषत ।
२) भोजेनोक्तम् ।
३) भो: पुत्तलिके, कथय तस्यौदार्यम् ।
४) राजन्, यस्वर्थिनां मनोरथं पूरयति तस्येप्सितं देव: सम्पादयति ।
५) स विक्रमो राजा एकदा स्वमनस्यचिन्तयत् ।
६) धनं दातव्यम् ।
७) शिल्पिभिरतीव मनोहरो मण्डप: कारित: ।
८) सर्वापि यज्ञसामग्री समाहृता ।
९) देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूता: ।
१०) कश्चिद्ब्राह्मण: समुद्राह्वानार्थं समुद्रतीरे प्रेषित: ।
११) विक्रमार्को राजा यज्ञं करोति ।
१२) विक्रमेण प्रेषितस्त्वं ।
१३) तेन यास्माकं सम्भावना कृता ।
१४) दानमानादि क्रियते ।
११३-१) सर्वस्वदक्षिणयज्ञवर्णनम् भाग १ उत्तरे
भाषांतर -
राजा पुन्हा सिंहासनावर बसण्य़ास निघाला. तेव्हा दुसरी पुतळी म्हणाली, “हे राजा, ज्याच्याकडे विक्रमाच्या तोडीचे औदार्य असेल त्यानेच या सिंहासनावर बसावे,” भोजराजा म्हणाला, “हे पुत्तलिके, त्याचे औदार्य (कसे होते ते) सांग. ती म्हणाली, “राजा, जो याचकांचे मनोरथ पूर्ण करतो, त्याचे इच्छित देव पूर्ण करतो. म्हटलच आहे की -
उत्साहाने युक्त, उद्योगी, कृती कशी करावी ते जाणणारा, व्यसनांपासून पराङ्मुख, शूर, कृतज्ञ व दृढनिश्चयी अशा मनुष्याकडे लक्ष्मी स्वत:च निवास करण्याच्या हेतूने जाते.”
अशा प्रकारे सर्व गुणांचे वसतीस्थान असलेला तो विक्रम राजा मनात विचार करू लागला, “हा संसार असार आहे. केव्हा कोणाचे काय होईल ते सांगता येत नाही. मिळवलेले धन सुद्धा दान किंवा उपभोग घेतल्याशिवाय सफल होत नाही. म्हटलच आहे की -
मिळवलेल्या संपत्तीचा त्याग करणे हेच तिचे रक्षण करण्यासारखे आहे. (असं पहा की) तळ्यामधील पाणी वाहू जाऊ देणे हेच त्या पाण्याचे रक्षण करण्यासारखे आहे.
दुसरं असं की धनाच्या बाबतीत त्याचे दान करावे, उपभोग घ्यावा पण धनाचा संचय करू नये. असं पहा की मधमाशांनी मिळवलेले धन (मध) दुसरेच घेऊन जातात.
असा विचार करून राजाने सर्वस्वाची ज्यात दक्षिणा दिली जाते असा यज्ञ करण्याचे ठरवले. तेव्हा कारागिरांकडून सुंदर मांडव तयार केला. यज्ञाची सर्व सामग्री आणली. देव, मुनी, गंधर्व, यक्ष, सिद्ध वगैरे सर्वांना बोलावले. त्या वेळी समुद्राला बोलावण्य़ासाठी त्याने कोण्या एका ब्राह्मणाला समुद्रकिनार्यावर पाठवले. त्या (ब्राह्म्णाने) समुद्रतीरावर जाऊन (समुद्राची) गंध, पुष्प वगैरे षोडशोपचारांनी पूजा केली व म्हणाला, “हे समुद्रा, विक्रमादित्यराजा यज्ञ करणार आहे. त्याने तुला बोलावण्यासाठी मला पाठवले आहे. म्हणून मी येथे आलो आहे.” असे म्हणून त्याने पाण्यामधे अर्घ्य समर्पण केले व क्षणभर थांबला. कोणीही त्याला प्रत्युत्तर दिले नाही. नंतर जेव्हा तो उज्जयिनीला जाण्यास परत फिरला इतक्यात समुद्र ब्राह्मणाचे रूप घेऊन त्याच्याकडे आला व म्हणाला, “ हे ब्राह्म्णा, विक्रम राजाने आम्हाला बोलावण्यास तुला पाठवले आहे. तेव्हा त्याने जी आमची संभावना केली ती आम्हाला पोचली. योग्यवेळी दान व मान करणे हेच तर मित्राचे लक्षण आहे. म्हटलं आहे की -
(मित्राला एखादी गोष्ट) देतो, (मित्राकडून) एखादी गोष्ट घेतो, (आपली) गुप्त गोष्ट (मित्राला)सांगतो व विचारतोही, (मित्राकडे) जेवतो व (मित्राला) जेवायला घालतो. असे हे मित्रप्रेमाचे षड्विध लक्षण आहे.
स्वाध्याय
प्रश्न १) या पाठातील क्रियापदांची काळ, अव्यये, विशेषणे या विभागात विभागणी करा.
१) हेत्वर्थक धातुसाधित तुमन्त अव्यय - समुपवेष्टुं आह्वातुं
२) वर्तमानकाळ - गच्छति अस्ति, वदति, पूरयति, सम्पादयति, य़ाति प्रत्यागच्छति करोति हरन्ति ददाति प्रतिगृह्णाति आख्याति पृच्छति भुङ्क्ते भोजयते
३) प्र. भूतकाळ - समवदत्, अचिन्तयत्, अवदत्
४) कर्मणी विध्यर्थी धा. विशेषण - अध्यासितव्यं दातव्यं भोक्तव्यं कर्तव्य:
५) कर्मणी भूतकाळवाचक विशेषण - उपार्जितं उक्तम्, कारित: समाहृता समाहूता: प्रेषित: कृता प्राप्ता
६) आज्ञार्थ - कथय पश्य,
७) कर्मणी वर्तमानकाळ - ज्ञायते क्रियते
८) पूर्वकालवाचक अव्यये - विचार्य विधाय दत्वा आगत्य
९) कर्तरी भूतकालवाचक विशेषणे - उपक्रान्तवान्, समागत: स्थित:
*१०) परोक्ष भूतकाळ - ददौ
प्रश्न २) संस्कृतमधे प्रश्नांची उत्तरे द्या.
१) अन्या पुत्तलिका राजानं किम् अवदत् ?
उत्तर - अन्या पुत्तलिका समवदत्, “भो: राजन्, एतत्सिंहासने तेनैव अध्यासितव्यं यस्य विक्रमतुल्यमौदार्यमस्ति ।”
२) स्वयं लक्ष्मी: निवासाय कं प्रति गच्छति ?
उत्तर - य: उत्साहसम्पन्न: अदीर्घसूत्र:, क्रियाविधिज्ञ: व्यसनेषु असक्त:, शूर:, कृतज्ञ:, दृढनिश्चयश्च अस्ति, लक्ष्मी: स्वयं तं प्रति निवासाय गच्छति ।
३) राजा स्वमनसि किमचिन्तयत् ?
उत्तर - राजा स्वमनस्यचिन्तयत्, “अहो, असारोऽयं संसार:, कदा कस्य किं भविष्यतीति न ज्ञायते । यच्चोपार्जितं वित्तं तदपि दानभोगैर्विना सफलं न भवति ।
४) वित्तं कथं रक्ष्यते ?
उत्तर - वित्तं त्यस्य त्यागेन रक्ष्यते
५) कस्य विषय सञ्चय: न कर्तव्य: ? किमर्थम् ?
उत्तर - धनविषये सञ्चय: न कर्तव्य: ।
६) राजा किं कर्तुम् उपक्रान्तवान् ?
उत्तर - राजा सर्वस्वदक्षिणयज्ञं कर्तुमुपक्रान्तवान् ।
७) यज्ञस्य कृते राज्ञा किं किं कृतम् ?
उत्तर - यज्ञस्य कृते राज्ञा शिल्पिभिरतीव मनोहरो मण्डप: कारित: । सर्वापि यज्ञसामग्री समाहृता । देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूता: ।
८) राज्ञा ब्राह्मण: कुत्र प्रेषित: ? किमर्थम् ?
उत्तर - राज्ञा कश्चिद्ब्राह्मण: समुद्राह्वानार्थं समुद्रतीरे प्रेषित: ।
्
९) समुद्रतीरं गत्वा ब्राह्मणेन किं कृतम् ?
उत्तर - ब्राह्मण: समुद्रतीरं गत्वा गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत्, “भो: समुद्र, विक्रमार्को राजा यज्ञं करोति । तेन प्रेषोतोऽहं त्वामाह्वातुं समागत: ।” इति जलमध्ये पुष्पाञ्जलिं दत्वा क्षणं स्थित: ।
१०) समुद्र: ब्राह्मणं किमवदत् ?
उत्तर - समुद्रो ब्राह्मणम् आगत्यावदत्, “भो ब्राह्मण, विक्रमेणास्मानाह्वातुं प्रेषितस्त्वं, तर्हि तेन यास्माकं सम्भावना कृता सा प्राप्तैव ।
११) किं सुहृद: लक्षणम् ?
उत्तर - सुहृद: ददाति, प्रतिगृह्णाति, गुह्यमाख्याति, पृच्छति, भुङ्क्ते, भोजयते च । एव: स: सुहृदं प्रति स्वप्रेम दर्शयति ।
प्रश्न ३) प्रयोग बदला.
१) अन्या पुत्तलिका अभाषत ।
उत्तर - अन्यया पुत्तलिकया अभाष्यत / भाषितम् ।
२) भोजेनोक्तम् ।
उत्तर - भोज: अब्रवीत् / उक्तवान् ।
३) भो: पुत्तलिके, कथय तस्यौदार्यम् ।
उत्तर - भो: पुत्तलिके, (त्वया) कथ्यताम् तस्य औदार्यम् ।
४) राजन्, यस्वर्थिनां मनोरथं पूरयति तस्येप्सितं देव: सम्पादयति ।
उत्तर - राजन्, येन त्वर्थिनां मनोरथ: पूर्यते, तस्येप्सितं देवेन सम्पाद्यते ।
५) स विक्रमो राजा एकदा स्वमनस्यचिन्तयत् ।
उत्तर - तेन विक्रमेण राज्ञा एकदा स्वमनसि अचिन्त्यत / चिन्तितम् ।
६) धनं दातव्यम् ।
उत्तर - (त्वं) धनं यच्छे: ।
७) शिल्पिभिरतीव मनोहरो मण्डप: कारित: ।
उत्तर - शिल्पिन: अतीव मनोहरं मण्डपं अकारयन् / कारितवन्त: ।
८) सर्वापि यज्ञसामग्री समाहृता ।
उत्तर - (राजा) सर्वाम् अपि यज्ञसामग्रीं समाहरत् / समाहृतवान् ।
९) देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूता: ।
उत्तर - राजा देवमुनिगन्धर्वयक्षसिद्धादीन् च समाह्वयत् / समाहूतवान् ।
१०) कश्चिद्ब्राह्मण: समुद्राह्वानार्थं समुद्रतीरे प्रेषित: ।
उत्तर - (राजा) कञ्चित् ब्राह्मणं समुद्राह्वानार्थं समुद्रतीरे अप्रेषत् / प्रेषितवान् २१.२३
११) विक्रमार्को राजा यज्ञं करोति ।
उत्तर - विक्रमार्केण राज्ञा यज्ञ: क्रियते ।
१२) विक्रमेण प्रेषितस्त्वं ।
उत्तर - विक्रम: प्रेषितवान्/अप्रेषत् त्वाम् ।
१३) तेन अस्माकं सम्भावना कृता ।
उत्तर - स: अस्माकं सम्भावनां अकरोत् / कृतवान्
१४) दानमानादि क्रियते ।
उत्तर - स: दानमानादि करोति ।
११३-२) सर्वस्वदक्षिणयज्ञवर्णनम् भाग २ प्रश्न
प्रश्न १) - खालील प्रश्नांची उत्तरे द्या.
१) केषां दूरस्थितानामपि मैत्री अस्ति ?
२) समुद्र: ब्राह्मणाय किमवदत् ?
३) चतुर्णां रत्नानां का विशेषता ?
४) ब्राह्मण: रत्नानि गृहीत्वा कुत्र कदा चायात: ?
५) राजा ब्राह्मणं किमवदत् ?
६) ब्राह्मण: राजानं किमवदत् ?
७) ब्राह्मणस्य गृहे चतुर्णां परस्परं किमर्थं विवाद: लग्न: ?
८) विवादं श्रुत्वा राजा किमकरोत् ?
प्रश्न २) प्रयोग बदला
१) राज्ञे रत्नचतुष्टयं ददामि ।
२) यद् वस्तु स्मर्यते
३) द्वितीयेन रत्नेन भोजनादिकममृततुल्यमुत्पद्यते ।
४) राजा जनानां मनोरथान् अपूरयत् ।
५) ब्राह्मण: राजानं रत्नानि अयच्छत् ।
६) ब्राह्मण: गुणकथनम् अकरोत् ।
७) मया सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषित: ।
८) त्वं रत्नं गृहाण ।
९) ब्राह्मणेनोक्तम् ।
१०) राज्ञोक्तम् ।
११) तथा कुरु ।
१२) ब्राह्मण: सर्वं वृत्तान्तं अकथयत् ।
१३) पुत्रेणोक्तम् ।
१४) र्त्नं चतुरङ्गबलं ददाति ।
१५) पित्रोक्तम् ।
१६) बुद्धिमता राज्यं न प्रार्थनीयम् ।
१७) भार्ययोक्तम् ।
१८) स्नुषयोक्तम् ।
१९) तद् रत्नं ग्राह्यम् ।
२०) ब्राह्मण: विवादवृत्तान्तम् अकथयत् ।
२१) अस्मिन् सिंहासने उपविश ।
प्रश्न ३) पूर्वकालवाचक काढा.
१) एतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छ ।
२) ततो ब्राह्मणस्तानि रत्नानि गृहीत्वा उज्जयिनीम् आगच्छत् ।
३) राजावभृथस्नानं कृत्वा जनानां मनोरथान् अपूरयत् ।
४) ब्राह्मणो राजानं दृष्ट्वा रत्नान्यर्पयित्वा प्रत्येकं तेषां गुणकथनमकरोत् ।
५) गृहं गत्वा गृहिणीं, पुत्रं, स्नुषां च पृष्ट्वा सर्वेभ्यो यद्रोचते तद् गृह्णामि ।
६) ब्राह्मणोऽपि स्वगृहमागत्य सर्वं वृत्तान्तं तेषामग्रेऽकथयत् ।
७) राजापि तच्छ्रुत्वा तस्मै ब्राह्मणाय चत्वार्यपि रत्नानि ददौ ।
८) इति कथां कथयित्वा पुत्तलिका राजानमवदत् ।
९) तच्छ्रुत्वा राजा तूष्णीमासीत्
सर्वस्वदक्षिणयज्ञवर्णनम् भाग २ उत्तरे
भाषांतर
दूरस्थितानां मैत्री नश्यति समीपस्थानां वर्धते इति न वाच्यम् ।
दूर असलेल्यांची मैत्री नष्ट होते व जवळ असलेल्यांची वाढते असेही म्हणू नये.
(असे पहा की)-
गिरौ कलापी गगने पयोद:
लक्षान्तरेऽर्कश्च जले च पद्मम् ।
इन्दुर्द्विलक्षे कुमुदस्य बन्धु-
र्यो यस्य मित्रं नहि तस्य दूरम् ॥ (उपजाति)
मोर पर्वतावर असतो व मेघ आकाशात असतो. लक्ष अंतरावर सूर्य असतो व पाण्यात सूर्यविकासी कमळ असते तर चंद्रविकासी कमळाचा बंधू चंद्र दोन लक्ष अंतरावर असतो. (तरीही सूर्य किंवा चंद्र उगवल्यावर कमळ फुलते). जो ज्याचा मित्र आहे त्याला अंतराबद्दल काही वाटत नाही.
तस्मै राज्ञे व्ययार्थं रत्नचतुष्टयं दास्यामि । एतेषां माहात्म्यं - एकं रत्नं यद्वस्तु स्मर्यते तद्ददाति । द्वितीयेन रत्नेन भोजनादिकममृततुल्यमुत्पद्यते । तृतीयरत्नाच्चतुरङ्गबलं भवति । चतुर्थाद्रत्नाद्दिव्याभरणानि जायन्ते । तदेतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छेति ।
त्या राजाला खर्च करण्यासाठी मी चार रत्ने देतो. या रत्नांचे माहात्म्य असे की - एक रत्न ज्या वस्तूचे स्मरण करावे ती देते. दुसर्या रत्नाने भोजनादिक अमृततुल्य गोष्टी मिळतात. तिसर्या रत्नाने चतुरंगी सेना प्राप्त होते व चौथ्या रत्नाने स्वर्गीय सुंदर असे अलंकार मिळतात. तेव्हा ही रत्ने घेऊन राजाला दे.”
ततो ब्राह्मणस्तानि रत्नानि गृहीत्वा उज्जयिनीम् यावदागतस्तावद्यज्ञसमाप्तिर्जाता । राजावभृथस्नानं कृत्वा सर्वानर्थिजनान् परिपूर्णमनोरथानकरोत् । ब्राह्मणो राजानं दृष्ट्वा रत्नान्यर्पयित्वा प्रत्येकं तेषां गुणकथनमकरोत् । ततो राजावदत्, “भो ब्राह्मण, भवान् यज्ञदक्षिणाकालं व्यतिक्रम्य समागत: । मया सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषित: । तर्हि त्वमेतेषां रत्नानां मध्ये यत्तुभ्यं रोचते तद्गृहाणेति” । ब्राह्मणेनोक्तम्, ‘गृहं गत्वा गृहिणीं, पुत्रं, स्नुषां च पृष्ट्वा सर्वेभ्यो यद्रोचते तद्ग्रहीष्यामीति” । राज्ञोक्तं तथा कुरु ।”
नंतर तो ब्राह्मण ती रत्ने घेऊन जेव्हा उज्जयिनीला आला तेव्हा (राजाच्या) यज्ञाची समाप्ती झाली होती. राजाने अवभृथ स्नान करून सर्व याचक वर्गाचे मनोरथ पूर्ण केले होते. ब्राह्मणाने राजाला पाहून त्याला ती रत्ने देऊन त्या प्रत्येक रत्नाचे माहात्म्य सांगितले. तेव्हा राजा म्हणाला, हे ब्रह्मन्, आपण यज्ञानंतर दक्षिणा देण्याची वेळ टळून गेल्यावर आलात. मी सर्व ब्राह्मणसमूहाला दक्षिणा देऊन संतुष्ट केले आहे. तेव्हा तुम्ही या रत्नांमधील जे रत्न तुम्हाला आवडेल ते घ्या.” ब्राह्मण म्हणाला, “घरी जाऊन पत्नी, मुलगा व सून यांना विचारून जे सर्वांना आवडेल ते घेतो.” राजा म्हणाला, “तसे कर.”
ब्राह्मणोऽपि स्वगृहमागत्य सर्वं वृत्तान्तं तेषामग्रेऽकथयत् । पुत्रेणोक्तं, ‘यद्रत्नं चतुरङ्गबलं ददाति तद्ग्रहीष्याम: । यत: सुखेन राज्यं कर्तुमर्हिष्याम: । पित्रोक्तं, बुद्धिमता राज्यं न प्रार्थनीयम् । पुन: पिता वदति, यस्माद्धनं लभते तद् गृहाण । धनेन सर्वमपि लभ्यते ।’ भार्ययोक्तं ‘यद्रत्नं षड्रसान् सूते तद्गृह्यताम् । सर्वेषां प्राणिनामन्नेनैव प्राणधारणं भवति ।” स्नुषयोक्तं यद्रत्नं रत्नाभरणादिकं सूते तद् ग्राह्यम् ।”
ब्राह्मणही घरी गेला व त्याने सर्व वृत्तांत (आपल्या कुटुंबाला) सांगितला. मुलगा म्हणाला, “जे रत्न चतुरंग सेना देते ते रत्न घेऊया. कारण सुखाने राज्य करता येईल.” वडील म्हणाले, “बुद्धिमानाने राज्याची इच्छा करू नये. पुन्हा ते म्हणाले की ज्या रत्नामुळे धनाची प्राप्ती होते ते घे. कारण धनाने सर्व काही प्राप्त होते.” पत्नी म्हणाली, ‘जे रत्न षड्रस अन्न निर्माण करते ते घ्यावे. कारण सर्व प्राणिमात्रांचे प्राधारण अन्नानेच होते.” सून म्हणाली, “जे रत्न दागिने देते ते घ्यावे”
एवं चतुर्णां परस्परं विवाद: लग्न: । ततो ब्राह्मणो राजसमीपमागत्य चतुर्णां विवादवृत्तान्तमकथयत् । राजापि तच्छ्रुत्वा तस्मै ब्राह्मणाय चत्वार्यपि रत्नानि ददौ ।
अशाप्रकारे चौघांचे परस्परात भांडण लागले. तेव्हा ब्राह्मणाने राजाकडे येऊन सर्व भांडणाचा वृत्तांत सांगितला. ते ऐकून राजाने चारही रत्ने त्याला दिली.
इति कथां कथयित्वा पुत्तलिका राजानमवदत्, “भो राजन्, त्वय्येवंविधं सहजमौदार्यं विद्यते चेदस्मिन् सिंहासने समुपविश ।” तच्छ्रुत्वा राजा तूष्णीमासीत् ।
ही कथा सांगून पुतळी राजाला म्हणाली, ‘हे राजा, तुझ्याकडे असे सहज औदार्य असेल तर या सिंहासनावर बस.” ते ऐकून राजा गप्प बसला.
स्वाध्याय
प्रश्न १) - खालील प्रश्नांची उत्तरे द्या.
१) केषां दूरस्थितानामपि मैत्री अस्ति ?
उत्तर - कलापी पर्वतशिखरे वर्तते, मेघ: आकाशे अस्ति अथवा सूर्य: आकाशे अस्ति पद्मं च जले अस्ति अथवा कुमुदस्य बन्धु: अपि आकाशे वर्तते तथापि तेषां मैत्री भवति ।
२) समुद्र: ब्राह्मणाय किमवदत् ?
उत्तर - समुद्र: ब्राह्मणाय अवदत् - “तस्मै राज्ञे व्ययार्थं रत्नचतुष्टयं दास्यामि ।”
३) चतुर्णां रत्नानां का विशेषता ?
उत्तर - एकं रत्नं यद्वस्तु स्मर्यते तद्ददाति । द्वितीयेन रत्नेन भोजनादिकममृततुल्यमुत्पद्यते । तृतीयरत्नाच्चतुरङ्गबलं भवति । चतुर्थाद्रत्नाद्दिव्याभरणानि जायन्ते । इति रत्नानां माहात्म्यं आसीत् ।
४) ब्राह्मण: रत्नानि गृहीत्वा कुत्र कदा चायात: ?
उत्तर - ब्राह्मणस्तानि रत्नानि गृहीत्वा उज्जयिनीम् राज्ञ: समीपमागत: ।
५) राजा ब्राह्मणं किमवदत् ?
उत्तर - राजावदत्, “भो ब्राह्मण, भवान् यज्ञदक्षिणाकालं व्यतिक्रम्य समागत: । मया सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषित: । तर्हि त्वमेतेषां रत्नानां मध्ये यत्तुभ्यं रोचते तद्गृहाणेति” ।
६) ब्राह्मण: राजानं किमवदत् ?
उत्तर - ब्राह्मण: राजानम् अवदत्,“गृहं गत्वा गृहिणीं, पुत्रं, स्नुषां च पृष्ट्वा सर्वेभ्यो यद्रोचते तद्ग्रहीष्यामीति” ।
७) ब्राह्मणस्य गृहे चतुर्णां परस्परं किमर्थं विवाद: लग्न: ?
उत्तर - ब्राह्मण: गृहं गत्वा रत्नानां माहात्म्यं स्वजनान् उक्तवान् । रत्नानां माहात्म्यं श्रुत्वा चत्वार: अपि गृहजना: पृथक् पृथक् रत्नं ग्रहितुम् ऐच्छन् । अत: चतुर्णां विवाद: लग्न: ।
८) विवादं श्रुत्वा राजा किमकरोत् ?
उत्तर - विवादं श्रुत्वा राजा चत्वारि अपि रत्नानि ब्राह्मणाय दत्तवान्
प्रश्न २) प्रयोग बदला
१) राज्ञे रत्नचतुष्टयं ददामि ।
उत्तर - राज्ञे रत्नचतुष्टयं दीयते ।
२) यद् वस्तु स्मर्यते ।
उत्तर - (त्वं) यद् वस्तु स्मरसि ।
३) द्वितीयेन रत्नेन भोजनादिकममृततुल्यमुत्पद्यते ।
उत्तर -द्वितीयं रत्नं भोजनादिकं अमृततुल्यम् उद्पद्यते ।
४) राजा जनानां मनोरथान् अपूरयत् ।
उत्तर -राज्ञा जनानां मनोरथा: अपूर्यन्त ।
५) ब्राह्मण: राज्ञे रत्नानि अयच्छत् ।
उत्तर -ब्राह्मणेन राज्ञे रत्नानि अदीयन्त ।
६) ब्राह्मण: गुणकथनम् अकरोत् ।
उत्तर - ब्राह्मणेन गुणकथनम् अक्रियत ।
७) मया सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषित: ।
उत्तर - अहं सर्वमपि ब्राह्मणसमूहं दक्षिणया तोषितवान् ।
८) त्वं रत्नं गृहाण ।
उत्तर - त्वया रत्नानि गृह्यन्ताम् ।
९) ब्राह्मणेनोक्तम् ।
उत्तर - ब्राह्मण: उक्तवान् ।
१०) राज्ञोक्तम् ।
उत्तर -राजा उक्तवान् ।
११) तथा कुरु ।
उत्तर -(त्वया) तथा क्रियताम् ।
१२) ब्राह्मण: सर्वं वृत्तान्तं अकथयत् ।
उत्तर - ब्राह्मणेन सर्व: वृत्तान्त: अकथ्यत ।
१३) पुत्रेणोक्तम् ।
उत्तर - पुत्र: उक्तवान् ।
१४) रत्नं चतुरङ्गबलं ददाति ।
उत्तर - रत्नेन चतुरङ्गबलं दीयते ।
१५) पित्रोक्तम् ।
उत्तर - पिता उक्तवान् ।
१६) बुद्धिमता राज्यं न प्रार्थनीयम् ।
उत्तर - बुद्धिमान् राज्यं न प्रार्थयेत ।
१७) भार्ययोक्तम् ।
उत्तर -भार्या उक्तवती ।
१८) स्नुषयोक्तम् ।
उत्तर - स्नुषा उक्तवती ।
१९) तद् रत्नं ग्राह्यम् ।
उत्तर - (वयं) तद् रत्नं गृह्णीयाम ।
२०) ब्राह्मण: विवादवृत्तान्तम् अकथयत् ।
उत्तर - ब्राह्मणेन विवादवृत्तान्तं अकथ्यत ।
२१) अस्मिन् सिंहासने उपविश ।
उत्तर - (त्वया) अस्मिन् सिंहासने उपविश्यताम् ।
प्रश्न ३) पूर्वकालवाचक काढा.
१) एतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छ ।
उत्तर - एतानि रत्नानि गृहाण राज्ञो हस्ते प्रयच्छ च ।
२) ततो ब्राह्मणस्तानि रत्नानि गृहीत्वा उज्जयिनीम् आगच्छत् ।
उत्तर - ततो ब्राह्मणस्तानि रत्नानि अगृह्णात् उज्जयिनीम् च आगच्छत् ।
३) राजावभृथस्नानं कृत्वा जनानां मनोरथान् अपूरयत् ।
उत्तर - राजावभृथस्नानं अकरोत् जनानां मनोरथान् अपूरयत् च ।
४) ब्राह्मणो राजानं दृष्ट्वा रत्नान्यर्पयित्वा प्रत्येकं तेषां गुणकथनमकरोत् ।
उत्तर - ब्राह्मणो राजानं अपश्यत् रत्नानि आर्पयत् प्रत्येकं तेषां गुणकथम् च अकरोत् ।*
५) गृहं गत्वा गृहिणीं, पुत्रं, स्नुषां च पृष्ट्वा सर्वेभ्यो यद्रोचते तद् गृह्णामि ।
उत्तर - गृहं गच्छामि गृहिणीं, पुत्रं, स्नुषां च पृच्छामि सर्वेभ्यो यद्रोचते तद् गृह्णामि च ।
६) ब्राह्मणोऽपि स्वगृहमागत्य सर्वं वृत्तान्तं तेषामग्रेऽकथयत् ।
उत्तर - ब्राह्मणोऽपि स्वगृहम् आगच्छत् सर्वं वृत्तान्तं तेषामग्र च अकथयत् ।
७) राजापि तच्छ्रुत्वा तस्मै ब्राह्मणाय चत्वार्यपि रत्नानि ददौ ।
उत्तर - राजापि तत् शुश्राव तस्मै च ब्राह्मणाय चत्वार्यपि रत्नानि ददौ ।
८) इति कथां अकथयत् पुत्तलिका राजानमवदत् च।
उत्तर -
९) तच्छ्रुत्वा राजा तूष्णीमासीत् ।
उत्तर - तत् अश्रुणोत् राजा तूष्णीं च आसीत् ।
No comments:
Post a Comment