पाठ ११७ वा - स्वयं अध्ययनासाठी पाठ अतिथिपरिचर्या
एकदा कश्चिद् व्याधो वातवृष्ट्या पीडितां भूमिपतितां कामपि कपोतीं पञ्जरे निधाय रात्रौ कमपि वृक्षतलमाश्रयत् । तस्मिन्नेव वृक्षे तस्या: कपोत्या नीडमासीत् । तत्र कपोत: ‘कथं मे प्रियाऽधुनापि गृहं नागता’ इति करुणं व्यलपत् । भर्तु: विलापमाकर्ण्य कपोती तमवदत्, ‘एषाऽहमत्र पञ्जरे बद्धास्मि । मम पञ्जरबन्धस्य कारणं मम पूर्वजन्मदुष्कृतमेव । अत एतस्मिन् व्याधे तव द्वेषो माऽस्तु । अपरं च एष व्याधस्तवातिथि: । तस्यातिथ्यमुचितं कुरुष्व’ इति ।
अथ स: कपोत: व्याधस्य समीपं गत्वाभणत्, “अतिथे, स्वागतं ते । कथय, किमहं त्वदर्थे करोमि’ इति ?” व्याधोऽब्रवीत्, “कपोत, शीतत्राणं क्षुधाशान्तिं च मम कुरु’ इति । तत: कपोत: पर्णानि समाहृत्य तत्र चाङ्गारं निक्षिप्य व्याधमवदत्, “भद्र, अग्निसमीपमुपविश । तेन शीतरक्षामनुभव । मम मांसमेव यच्छामि तुभ्यम्, येन तव क्षुधाशान्तिर्भवतु’ इति । तत: “मा मा” इति व्याध: कपोतं न्यवारयत् । तथापि कपोत: वह्निं प्राविशत् ।
स्वाध्याय -
प्रश्न १) खालील प्रश्नांची संस्कृतमधे उत्तरे द्या.
१) व्याध: केन पीडित: आसीत् ?
२) व्याध: कां पञ्जरे न्यक्षिपत् ?
३) कपोत्या: नीडं कुत्र आसीत् ?
४) कपोत: किमर्थं व्यलपत् ?
५) कपोती कपोतं किमवदत् ?
६) कपोतेन व्याधस्य आतिथ्यं कथं कृतम् ?
प्रश्न २) संधी सोडवा
१) व्याधो वातवृष्ट्या =
२) कामपि =
३) वृक्षतलमाश्रयत् =
४) तस्मिन्नेव =
५) प्रियाऽधुनापि =
६) कपोत्या नीडमासीत् =
७) नागता =
८) एषाऽहमत्र =
९) द्वेषो माऽस्तु =
प्रश्न ३) संधी करा.
१) बद्धा + अस्मि =
२) व्याध: + तव =
३) तव + अतिथि: =
४) तस्य + आतिथ्यम् + उचितं =
५) गत्वा + अभणत् =
६) व्याध: + अब्रवीत् =
७) च + अङ्गारम् =
८) क्षुधाशान्ति: + भवतु =
प्रश्न ४ प्रयोग बदला -
१) व्याध: कपोतीं पञ्जरे क्श्ःइपति ।
२) कपोत: व्याधस्य आतिथ्यं करोति ।
३) व्याध: गदति ।
४) मम क्श्ःउधाशान्तिं कुरु ।
५) कपोत: पर्णानि समाहरति ।
६) कपोती अङ्गारं निक्षिपति ।
७) भाद्र, शीतरक्षामनुभव ।
८) मम मांसं तुभ्यं यच्छामि ।
९) व्याध कपोतं निवारयति ।
१०) कपोत: कपोतीं गदति ।
प्रश्न ५) पूर्वकालवाचक काढा.
१) व्याध: कपोतीं पञ्जरे निधाय रात्रौ कमपि वृक्षतलमाश्रयत् ।
२) भर्तु: विलापमाकर्ण्य कपोती तमवदत् ।
३) कपोत: व्याधस्य समीपं गत्वाभणत् ।
४) कपोत: पर्णानि समाहृत्य तत्र चाङ्गारं निक्षिप्य व्याधमवदत् ।
भाषांतर -
एकदा कश्चिद् व्याधो वातवृष्ट्या पीडितां भूमिपतितां कामपि कपोतीं पञ्जरे निधाय रात्रौ कमपि वृक्षतलमाश्रयत् । तस्मिन्नेव वृक्षे तस्या: कपोत्या नीडमासीत् । तत्र कपोत: ‘कथं मे प्रियाऽधुनापि गृहं नागता’ इति करुणं व्यलपत् । भर्तु: विलापमाकर्ण्य कपोती तमवदत्, ‘एषाऽहमत्र पञ्जरे बद्धास्मि । मम पञ्जरबन्धस्य कारणं मम पूर्वजन्मदुष्कृतमेव । अत एतस्मिन् व्याधे तव द्वेषो माऽस्तु । अपरं च एष व्याधस्तवातिथि: । तस्यातिथ्यमुचितं कुरुष्व’ इति ।
एकदा एका वादळी वार्याने त्रस्त झालेला पारध्याने जमिनीवर पडलेल्या कबूतरीला पिंजर्यात ठेऊन रात्री एका वृक्षाचा आश्रय घेतला. त्याच वृक्षावर त्या कबूतरीचे घरटे होते. तेथे कबूतर ‘माझी प्रिया अजूनही घरी कशी आली नाही’ (अशा विचाराने) करुणपणे विलाप करत होता. आपल्या पतीचा विलाप ऐकून कबूतरी त्याला म्हणाली - “ही मी पिंजर्यात बद्ध झाले आहे. पिंजर्यात बद्ध होण्याचे कारण माझे पूर्वजन्मातील दुष्क्टुत्यच आहे. तेव्हा या पारध्याच्याचा तू द्वेष करू नकोस. दुसरं असं की हा पारधी तुझा अतिथी आहे. त्याचे योग्य ते आतिथ्य कर.”
अथ स: कपोत: व्याधस्य समीपं गत्वाभणत्, “अतिथे, स्वागतं ते । कथय, किमहं त्वदर्थे करोमि’ इति ?” व्याधोऽब्रवीत्, “कपोत, शीतत्राणं क्षुधाशान्तिं च मम कुरु’ इति । तत: कपोत: पर्णानि समाहृत्य तत्र चाङ्गारं निक्षिप्य व्याधमवदत्, “भद्र, अग्निसमीपमुपविश । तेन शीतरक्षामनुभव । मम मांसमेव यच्छामि तुभ्यम्, येन तव क्षुधाशान्तिर्भवतु’ इति । तत: “मा मा” इति व्याध: कपोतं न्यवारयत् । तथापि कपोत: वह्निं प्राविशत् ।
मग ते नर कबूतर पारध्याच्या जवळ येऊन म्हणाले - “हे अतिथे, तुझे स्वागत आहे. सांग बरं, मी तुझ्यासाठी काय करू ?” पारधी म्हणाला, “हे कबूतरा, माझे थंडीपासून संरक्षण कर व माझी भूक शमव.” तेव्हा कबूतराने झाडाची पाने गोळा करून त्यावर अग्नी ठेऊन पारध्याला म्हणाले, हे भल्या माणसा, अग्नीजवळ बैस. त्यामुळे थंडीपासून संरक्षण अनुभव. मी माझे मांसच तुला देतो, त्यामुळे तुझी भूक शांत होईल.” तेव्हा “नको, नको’ असे म्हणून पारधी कबूतराला अडवत होता. तरीही कबूतराने अग्नीमधे प्रवेश केला.
स्वयं अध्ययनासाठी पाठ अतिथिपरिचर्या उत्तरे
प्रश्न १) खालील प्रश्नांची संस्कृतमधे उत्तरे द्या.
१) व्याध: केन पीडित: आसीत् ?
उत्तर - व्याधो वातवृष्ट्या पीडित: आसीत् ।
२) व्याध: कां पञ्जरे न्यक्षिपत् ?
उत्तर - व्याध: कपोतीं पञ्जरे न्यक्षिपत् ।
३) कपोत्या: नीडं कुत्र आसीत् ?
उत्तर - तस्मिन्नेव वृक्षे तस्या: कपोत्या नीडमासीत् ।
४) कपोत: किमर्थं व्यलपत् ?
उत्तर - कपोतस्य भार्या गृहं न आगता । अत: कपोत: व्यलपत् ।
५) कपोती कपोतं किमवदत् ?
उत्तर - कपोती कपोतं अवदत्
६) कपोतेन व्याधस्य आतिथ्यं कथं कृतम् ?
उत्तर - कपोतेन व्याधस्य शीतत्राणं कर्तुं पर्णानि समाहृत्य तत्र अग्नि: निक्षिप्त: । तस्य क्षुधां शमयितुं तेन आत्मानं अग्निं समर्प्य स्वमासं दत्तम् ।
प्रश्न २) संधी सोडवा
१) व्याधो वातवृष्ट्या = व्याध: + वातवृष्ट्या
२) कामपि = काम् + अपि
३) वृक्षतलमाश्रयत् = वृक्षतलम् + आश्रयत्
४) तस्मिन्नेव = तस्मिन् + एव
५) प्रियाऽधुनापि = प्रिया + अधुना + अपि
६) कपोत्या नीडमासीत् = कपोत्या: + नीडम् + आसीत्
७) नागता = न + आगता
८) एषाऽहमत्र = एषा + अहम् + अत्र
९) द्वेषो माऽस्तु = द्वेष: + मा + अस्तु
प्रश्न ३) संधी करा.
१) बद्धा + अस्मि = बद्धास्मि
२) व्याध: + तव = व्याधस्तव
३) तव + अतिथि: = तवातिथि:
४) तस्य + आतिथ्यम् + उचितं = तस्यातिथ्यमुचितं
५) गत्वा + अभणत् = गत्वाभणत्
६) व्याध: + अब्रवीत् = व्याधोऽब्रवीत्
७) च + अङ्गारम् = चाङ्गारम्
८) क्षुधाशान्ति: + भवतु = क्षुधाशान्तिर्भवतु
प्रश्न ४ प्रयोग बदला -
१) व्याध: कपोतीं पञ्जरे क्षिपति ।
उत्तर - व्याधेन कपोती पञ्जरे क्षिप्यते ।
२) कपोत: व्याधस्य आतिथ्यं करोति ।
उत्तर - कपोतेन व्याधस्य आतिथ्यं क्रियते ।
३) व्याध: गदति ।
उत्तर - व्याधेन गद्यते ।
४) मम क्षुधाशान्तिं कुरु ।
उत्तर - (त्वया) मम क्षुधाशान्ति: क्रियताम् ।
५) कपोत: पर्णानि समाहरति ।
उत्तर - कपोतेन पर्णानि समाह्रियन्ते ।
६) कपोती अङ्गारं निक्षिपति ।
उत्तर - कपोत्या अङ्गार: निक्षिप्यते ।
७) भद्र, शीतरक्षामनुभव ।
उत्तर - भद्र (त्वया) शीतरक्षा अनुभूयताम् ।
८) मम मांसं तुभ्यं यच्छामि ।
उत्तर - (मया) मम मांसं तुभ्यं दीयते ।
९) व्याध कपोतं निवारयति ।
उत्तर - व्याधेन कपोत: निवार्यते ।
१०) कपोत: कपोतीं गदति ।
उत्तर - कपोतेन कपोती गद्यते ।
प्रश्न ५) पूर्वकालवाचक काढा.
१) व्याध: कपोतीं पञ्जरे निधाय रात्रौ कमपि वृक्षतलमाश्रयत् ।
उत्तर - व्याध: कपोतीं पञ्जरे न्यदधात् रात्रौ च कमपि वृक्षतमाश्रयत् ।
२) भर्तु: विलापमाकर्ण्य कपोती तमवदत् ।
उत्तर - भर्तु: विलापम् आकर्णयत् कपोती च तमवदत् ।
३) कपोत: व्याधस्य समीपं गत्वाभणत् ।
उत्तर - कपोत: व्याधस्य समीपं अगच्छत् अभणत् च ।
४) कपोत: पर्णानि समाहृत्य तत्र चाङ्गारं निक्षिप्य व्याधमवदत् ।
उत्तर - कपोत: पर्णानि समाहरत् तत्र चाङ्गारं न्यक्षिपत् व्याधमवदत् च ।
No comments:
Post a Comment