पाठ ७० वा - ल्यबन्त अव्ययांनी युक्त सुभाषिते
१) सुजनं व्यजनं मन्ये चारुवंशसमुद्भवम् ।
आत्मानं च परिभ्राम्य परतापनिवारणम् ॥
अन्वय - (अहं) चारुवंशसमुद्भवम् व्यजनं सुजनं मन्ये । (यत:) आत्मानं च परिभ्राम्य परतापनिवारणम् (करोति) ॥
अर्थ - चांगल्या बांबूपासून बनवलेला पंखा ज्याप्रमाणे मला सज्जनाप्रमाणे वाटतो. कारण तो स्वत:भोवती फिरून दुसर्याचा ताप दूर करतो
२) विसृज्य शूर्पवद्दोषान् गुणान् गृह्णन्ति साधव: ।
दोषग्राही गुणत्यागी चालनीव हि दुर्जन: ॥
संधिविग्रह - विसृज्य शूर्पवत् दोषान् गुणान् गृह्णन्ति साधव: । दोषग्राही गुणत्यागी चालनी इव हि दुर्जन: ॥
अन्वय - साधव: शूर्पवत् दोषान् विसृज्य गुणान् गृह्णन्ति । हि दुर्जन: चालनी इव दोषग्राही गुणत्यागी (अस्ति) ॥
अर्थ - सुपाप्रमाणे दोष टाकून सज्जन गुण घेतात तर गुणांचा त्याग करून दोष ग्रहण करणारे दुर्जन चाळणीप्रमाणे असतात.
३) त्यजति गुणान् सुदूरं तनुमपि दोषं निरीक्ष्य गृह्णाति ।
मुक्त्वालङ्कृतकेशान् यूकामिव वानर: पिशुन: ॥
संधिविग्रह - त्यजति गुणान् सुदूरं तनुम् अपि दोषं निरीक्ष्य गृह्णाति ।
मुक्त्वा अलङ्कृतकेशान् यूकाम् इव वानर: पिशुन: ॥
अन्वय - वानर: अलङ्कृतकेशान् मुक्त्वा यूकाम् इव पिशुन: गुणान् सुदूरं त्यजति, तनुम् अपि दोषं निरीक्ष्य गृह्णाति ।
अर्थ - वानर ज्याप्रमाणे ऊ शोधण्यासाठी अलंकृत केस मोकळे करतो, त्याप्रमाणे दुष्ट मनुष्य गुण दूर टाकतो लहानशा दोषांचे निरीक्षण करून त्यांचे ग्रहण करतो.
४) यथा गजपति: श्रान्तश्छायार्थी वृक्षमाश्रित: । विश्रम्य तं द्रुमं हन्ति तथा नीच: स्वमाश्रयम् ॥
संधिविग्रह - यथा गजपति: श्रान्त: छायार्थी वृक्षम् आश्रित: । विश्रम्य तं द्रुमं हन्ति तथा नीच: स्वम् आश्रयम् ॥
अन्वय - यथा श्रान्त: छायार्थी वृक्षम् आश्रित: गजपति: विश्रम्य, तं द्रुमं हन्ति । तथा नीच: स्वम् आश्रयम् (नाशयति) ।॥
अर्थ - ज्याप्रमाणे दमलेला हत्तींचा राजा सावलीच्या इच्छेने झाडाच्या सावलीचा आश्रय घेतो व विश्रांती झाल्यावर ते झाड तो उपटून टाकतो तसा नीच मनुष्य स्वत:च्या आश्रयाचा नाश करतो.
५) मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् । सज्जनै: सङ्गतं कुर्यात् धर्माय च सुखाय च ॥
अन्वय - संसारं मृगतृष्णासमं क्षणभङ्गुरम् वीक्ष्य । नर: कदा धर्माय च सुखाय च सज्जनै: सङ्गतं कुर्यात् ॥
अर्थ - संसार हा मृगजळाप्रमाणे आहे असे पाहून धर्मसाठी व सुखासाठी सज्जनांच्या बरोबर संगत करावी.
६) न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥
संधिविग्रह - न संशयम् अनारुह्य नर: भद्राणि पश्यति । संशयं पुन: आरुह्य यदि जीवति पश्यति ॥
अन्वय - नर: संशयम् अनारुह्य भद्राणि न पश्यति । संशयं पुन: आरुह्य यदि जीवति पश्यति ॥
अर्थ - संशय घेतल्याशिवाय मनुष्य कल्याणकारक गोष्टी पाहू शकत नाही. (सारखा) संशय घेऊन जर तो जिवंत राहिला तर (कल्याणकारक गोष्टी) पहातो.
७) परद्रव्यापहारेण कलत्रं पोषितं च यत् ।
अन्ते तत्सर्वमुत्सृज्य एक एव प्रयाति वै ॥
संधिविग्रह - परद्रव्यापहारेण कलत्रं पोषितं च यत् । अन्ते तत्सर्वम् उत्सृज्य एक एव प्रयाति वै
अन्वय - परद्रव्यापहारेण कलत्रं पोषितं च यत् । अन्ते तत्सर्वम् उत्सृज्य एक एव प्रयाति वै
अर्थ - दुसर्याच्या द्रव्याचा अपहार करून पत्नीचे पोषण केले जाते, पण शेवटी त् सर्व सोडून एकट्यालाच जावे लागते.
स्वाध्याय
प्रश्न १) खालील प्रश्नांची उत्तरे द्या
१) कवि: सुजनं किं मन्यते ?
२) सुजन: व्यजनं परतापनिवारणं कथं कुरुत:
३) साधव: शूर्पवत् किं कुर्वन्ति ?
४) दुर्जन: कीदृश: अस्ति ?
५) वानरे पिशुने च किं साम्यम् ?
६) कवि: दुर्जनस्य तुलना गजपतिना सह कथं करोति ?
७) सज्जनै: सङ्गतं किमर्थं कुर्यात् ?
८) संसार कीदृश: अस्ति ?
९) संशयमनारुह्य नर: किं न पश्यति ?
प्रश्न २) ल्यबन्त अव्ययाऐवजी कालार्थ रूप वापरा.
१) व्यजनम् आत्मानं परिभ्राम्य परतापनिवारणं करोति ।
२) साधव: दोषान् विसृज्य गुणान् गृह्णन्ति ।
३) वानर: युकां निरीक्ष्य गृह्णाति ।
४) पिशुन: दोषं वीक्ष्य गृह्णाति ।
५) गजपति: विश्रम्य तं द्रुमं हन्ति
६) क्षणभङ्गुरम् संसारं वीक्ष्य सज्जनै: सह सङ्गतं करोति ।
७) संशयम् आरुह्य नरो विनश्यति ।
८) अन्तकाले नर: सर्वम् उत्सृज्य एक: एव प्रयाति ।
प्रश्न ३) कंसातील सूचनांनुसार बदल करा.
१) व्यजनम् आत्मानं परिभ्राम्य परतापनिवारणं करोति । (भ्रम्-भ्राम् धातू वापरा).
२) साधव: दोषान् विसृज्य गुणान् गृह्णन्ति । (विसृज्य ऐवजू त्यज् धातू वापरा.)
३) वानर: युकां निरीक्ष्य गृह्णाति । (निरीक्ष्य ऐवजी अव + लोक् धातू वापरा)
४) पिशुन: दोषं निरीक्ष्य गृह्णाति । (निरीक्ष्य ऐवजी द्श् धातू वापरा)
५) क्षणभङ्गुरम् संसारं वीक्ष्य सज्जनै: सह सङ्गतं कुर्यात् । (वीक्ष्य ऐवजी प्र + दृश् वापरा)
६) अन्तकाले नर: सर्वम् उत्सृज्य एक: एव प्रयाति । (उत्सृज्य ऐवजी त्यज् धातू वापरा)
प्रश्न ४) खालील सुभाषितांचा अर्थ सांगा.
१) अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये । विद्यावात्सल्यनिधय: शिक्षका मम दैवतम् ॥
२) नवं पुरातनं वापि लेखं पश्यन्ति पण्डिता: । सारमासाद्य तुष्यन्ति नि:सारं च त्यजन्ति ते ॥
=============
७०) पाठ ल्यबन्त अव्ययांनी युक्त सुभाषिते उत्तरे
प्रश्न १) खालील प्रश्नांची उत्तरे द्या
१) कवि: सुजनं किं मन्यते ?
कवि: सुजनं व्यजनं मन्यते ।
२) सुजन: व्यजनं परतापनिवारणं कथं कुरुत: ?
आत्मानं परिभ्राम्य सुजन: व्यजनं च परतापनिवारणं कुरुत: ।
३) साधव: शूर्पवत् किं कुर्वन्ति ?
साधव: शूर्पवत् दोषान् त्यक्त्वा गुणान् गृह्णन्ति ।
४) दुर्जन: कीदृश: अस्ति ?
दुर्जन: चालनीव अस्ति । स: गुणान् त्यक्त्वा दोषान् गृह्णाति ।
५) वानरे पिशुने च किं साम्यम् ?
पिशुन: वानर: इव गुणान् सुदूरं त्यक्त्वा तनुम् अपि दोषं गृह्णाति
६) कवि: दुर्जनस्य तुलना गजपतिना सह कथं करोति ?
श्रान्त: गजपति: वृक्षस्य छायाम् आश्रयति । अनन्तरं वृक्षम् उन्मूलयति तथैव दुर्जन: अपि स्वाश्रयम् नाशयति ।
७) सज्जनै: सङ्गतं किमर्थं कुर्यात् ?
धर्मसुखप्राप्त्यर्थं सज्जनै: सङ्गतं कुर्यात् ।
८) संसार कीदृश: अस्ति ?
संसार: मृगजलम् इव क्षणभङ्गुर: ।
९) संशयमनारुह्य नर: किं न पश्यति ?
संशयम् अनारुह्य नर: भद्राणि न पश्यति ।
प्रश्न २) ल्यबन्त अव्ययाऐवजी कालार्थ रूप वापरा.
१) व्यजनम् आत्मानं परिभ्राम्य परतापनिवारणं करोति ।
व्यजनं आत्मानं परिभ्राम्यति परतापनिवारणं च करोति ।
२) साधव: दोषान् विसृज्य गुणान् गृह्णन्ति ।
साधव: दोषान् विसृजन्ति गुणान् गृह्णन्ति च ।
३) वानर: युकां निरीक्ष्य गृह्णाति ।
वानर: यूकां निरीक्षते गृह्णाति च ।
४) पिशुन: दोषं वीक्ष्य गृह्णाति ।
पिशुन: दोषान् वीक्षते गृह्णाति च ।
५) गजपति: विश्रम्य तं द्रुमं हन्ति ।
गजपति: विश्राम्यति तं द्रुमं च हन्ति ।
६) क्षणभङ्गुरम् संसारं वीक्ष्य सज्जनै: सह सङ्गतं करोति ।
क्षणभङ्गुरं संसारं वीक्षते सज्जनै: सङ्गतं च करोति ।
७) संशयम् आरुह्य नरो विनश्यति ।
संशयम् आरोहति नरो विनश्यति च ।
८) अन्तकाले नर: सर्वम् उत्सृज्य एक: एव प्रयाति ।
अन्तकाले नर: सर्वम् एव विसृजति एक: एव प्रयाति च ।
प्रश्न ३) कंसातील सूचनांनुसार बदल करा.
१) व्यजनम् आत्मानं परिभ्राम्य परतापनिवारणं करोति । (भ्रम्-भ्राम् धातू ऐवजी अट धातू वापरा).
व्यजनं आत्मानं अटित्वा परतापनिवारणं करोति ।
२) साधव: दोषान् विसृज्य गुणान् गृह्णन्ति । (विसृज्य ऐवजू त्यज् धातू वापरा.)
साधव: दोषान् त्यक्त्वा गुणान् गृह्णन्ति ।
३) वानर: युकां निरीक्ष्य गृह्णाति । (निरीक्ष्य ऐवजी अव + लोक् धातू वापरा)
वानर: युकां अवलोक्य गृह्णाति ।
४) पिशुन: दोषं निरीक्ष्य गृह्णाति । (निरीक्ष्य ऐवजी दृश् धातू वापरा)
पिशुन: दोषं दृष्ट्वा गृह्णाति ।
५) क्षणभङ्गुरम् संसारं वीक्ष्य सज्जनै: सह सङ्गतं कुर्यात् । (वीक्ष्य ऐवजी प्र + दृश् वापरा)
क्षणभङ्गुरम् संसारं प्रदृश्य सज्जनै: सह सङ्गतं कुर्यात् ।
६) अन्तकाले नर: सर्वम् उत्सृज्य एक: एव प्रयाति । (उत्सृज्य ऐवजी त्यज् धातू वापरा)
अन्तकाले नर: सर्वम् त्यक्त्वा एक: एव प्रयाति ।
प्रश्न ४) खालील सुभाषितांचा अर्थ सांगा.
१) अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये । विद्यावात्सल्यनिधय: शिक्षका मम दैवतम् ॥
अर्थ - गुरूंच्याकडून ज्ञान मिळवून जे विद्यार्थांना देतात अशा विद्या व वात्सल्याचा निधी असणारे शिक्षक हे माझे दैवत आहेत.
२) नवं पुरातनं वापि लेखं पश्यन्ति पण्डिता: । सारमासाद्य तुष्यन्ति नि:सारं च त्यजन्ति ते ॥
अर्थ - पंडित लोक नवी वा जुना लेख पहातात. त्यातील सारभाग घेऊन संतुष्ट होतात व निस्सार गोष्टीचा त्याग करतात.
No comments:
Post a Comment