पाठ ७२ वा - विश्वसुहृद् मरुत्
मरुत् विश्वसुहृदस्ति । स: स्वयं स्पृशति, विहरति, संहरति, परिहरति, प्रहरति च । एष: ‘जगत्प्राण’ इति नाम्ना प्रसिद्ध: । मरुता विना क: अन्य: श्वासप्रच्छ्वासरूपेण देहान् धारयति ? क: विकसितानां पुष्पाणां सौरभं वहति ? क: जनान् सुखयति ? क: बलाहकानां सहाय: भूत्वा सुवृष्ट्या सृष्टिं पोषयति ?
पवन: सलिलपूर्णान् मेघान् प्रचोदयति । मेघान् देशान्तरं नयति । तत: मेघा जलं वर्षन्ति धराञ्च अभिषिञ्चन्ति । तेनैव जीवलोक: नन्दति । अत एष: मरुत् विश्वसुहृद् । स: विश्वरूप: अपि ।
सकला सृष्टि: मरुत: स्वागतं करोति । तस्य स्पर्शमात्रेण जना: मोदन्ते । नौका: जले सलीलं विहरन्ति । सर्वे अपि तं मरुतं चन्द्रमसमिव कामयन्ते । सर्वै: सह तस्य सख्यम् । नृपेण सह स यथा प्रासादसौधेषु संचरति तथैव मुनिभि: सह पर्णाशालास्वपि । स: पण्डितानां देहेषु संचरति तथैव मूर्खाणां देहेष्वपि । स: सुजनानां तथा दुर्जनानामपि मित्रम् ।
ऋग्वेदे मरुद्गणान्संबोध्य मरुत्सूक्तानि वर्तन्ते । एते नवचत्वारिंशत् (४९) । अयं समीर: मेघमित्रम् । विद्युत्, मेघ: सलिलं च तस्य आप्ता: । पर्जन्यवृष्टिकरणं तेषां प्रमुखं कार्यम् । वायु: अन्यान्यपि कार्याणि करोति ।
अधुना भारतदेशे पवनचक्रिकाभिर्विद्युन्निर्मितिरपि क्रियते । कदाचित् समीरण: रौद्ररूपं धारयति । क्षुब्ध: मरुत् प्रभञ्जन: भवति । प्रभञ्जनेन जलधौ पर्वताकारा: तरङ्गा जायन्ते । नौका मज्जन्ति । भवनान्युत्पतन्ति । वृक्षा निपतन्ति । सकला सृष्टि: आकुलिता भवति । केचन कवयो वदन्ति ।
प्राणास्त्वमेव जगत: पवन त्वमेव
विश्वं पुनासि परित: परितो विहृत्य ।
एकं परं सकलभूषण दूषणं ते
वन्हे: सखा भवसि यद् भवनं दिधक्षो: ॥*
=========
प्रश्न १) खालील प्रश्नांची संस्कृतमधे उत्तरे द्या.
१) क विश्वसुहृद् ?
२) मरुत: कान्यन्यानि नामधेयानि ?
३) मरुत् किं किं करोति ?
४) जीवलोक: केन आनन्दितो भवति ?
५) सर्वे जना मरुतं किमर्थं कामयन्ते ?
६) समीर: कथं समदर्शी दृश्यते ?
७) ऋग्वेदो मरुतं कथं वर्णयति ?
८) मरुत: किं प्रमुखं कार्यम् ?
९) मरुत् प्रभञ्जनो भूत्वा किं करोति ?
१०) भारतदेशे विद्युन्निर्मिति: कथं भवति ?
११) मरुत: किं दूषणम् ?
(येथे प्रश्न सुद्धा संधी करूनच दिलेले आहेत. तेव्हा संधी सोडवून प्रश्न समजून घ्यावे लागतील.)
प्रश्न २) कंसातील शब्दांची योग्य ती विभक्ती लिहा.
१) मरुत् जगत्प्राण इति --- प्रसिद्ध: । (नामन्)
२) वायु: विकसितानां ---- सौरभं वहति । (कुसुम)
३) मरुत् ---- सुखयति । (लोक)
४) पर्जन्य: ---- सृष्टिं पोषयति । (वृष्टि)
५) वर्षाकाले मेघा: ---- सन्ति । (सलिलपूर्ण)
६) समीरणस्य ---- जना: मोदन्ते । (स्पर्श)
७) नौका: ---- सलीलं विहरन्ति । (वारि)
८) ---- सह मरुत: सख्यम् । (अग्नि)
९) वाय़ु: ---- सह प्रासाधसौधेषु विहरति । (नृपति)
१०) समीर: --- सह पर्णाशालासु संचरति । (तापस)
११) वायो: --- सह --- सह सख्यम् । (सुजन, दुर्जन)
१२) पर्जन्यवृष्टिकरणं --- प्रमुखं कार्यम् । (मरुत्)
१३) ---- विद्युन्निर्मिति: क्रियते । (पवनचक्रिका)
१४) --- जलधौ तरङ्गा: उद्भवन्ति । (मरुत्)
१५) मरुत् --- मित्रं भवति । (अग्नि)
प्रश्न ३) संधी सोडवा.
मरुतैव =
तेनैव =
मरुतमभिनन्दति =
तेषामाप्ता: =
सुहृदस्ति =
प्राण इति =
मेघा जलं =
अत एष: =
चन्द्रमसमिव =
स यथा =
पर्णाशालास्वपि =
देहेष्वपि =
अन्यान्यपि =
पवनचक्रिकाभिर्विद्युन्निर्मितिरपि =
तरङ्गा जायन्ते =
नौका मज्जन्ति =
भवनान्युत्पतन्ति =
वृक्षा निपतन्ति =
कवयो वदन्ति =
प्राणास्त्वमेव =
परितो विहृत्य =
सरावासाठी अभ्यास -
प्रश्न १) - रूपे ओळखा -
मरुत्, सुहृद्, नाम्ना, अन्य:, देहान्, पुष्पाणाम्, सौरभम्, बलाहकानाम्, सृष्टिम्, मेघान्, धराम्, मरुत:, नृपेण, सौधेषु, शालासु, देहेषु, पवनचक्रिकाभि:, निर्मिति:, भवनानि, पवन,
प्रश्न २) - पाठातील वर्तमानकाळी क्रियापदांची यादी करा.
=======
७२) उत्तरे विश्वसुहृद् मरुत्
प्रश्न १) खालील प्रश्नांची संस्कृतमधे उत्तरे द्या.
१) क विश्वसुहृद् ?
उत्तर - मरुत् विश्वसुहृदस्ति ।
२) मरुत: कान्यन्यानि नामधेयानि ?
उत्तर - पवन:, समीर:, समीरण:, वायु:, जगत्प्राण: इत्यादीनि मरुत: अन्यानि नामधेयानि ।
३) मरुत् किं किं करोति ?
उत्तर - मरुत: स्वयं स्पृशति, विहरति, संहरति, परिहरति, प्रहरति च ।
४) जीवलोक: केन आनन्दितो भवति ?
उत्तर - मेघा जलं वर्षन्ति धराञ्च अभिषिञ्चन्ति । तेनैव जीवलोक: आनन्दित: भवति ।
५) सर्वे जना मरुतं किमर्थं कामयन्ते ?
उत्तर - सर्वे अपि तं मरुतं आनन्दं प्राप्तुं कामयन्ते ।
६) समीर: कथं समदर्शी दृश्यते ?
उत्तर - समीर: नृपेण सह स यथा प्रासादसौधेषु संचरति तथैव मुनिभि: सह पर्णाशालास्वपि । स: पण्डितानां देहेषु संचरति तथैव मूर्खाणां देहेष्वपि । स: सुजनानां तथा दुर्जनानामपि मित्रम् । एवं समीर: समदर्शी ।
७) ऋग्वेदो मरुतं कथं वर्णयति ?
उत्तर - ऋग्वेद: वर्णयति, “अयं समीर: मेघमित्रम् । विद्युत्, मेघ:, सलिलं च तस्य आप्ता: ।”
८) मरुत: किं प्रमुखं कार्यम् ?
उत्तर - पर्जन्यवृष्टिकरणं मरुत: प्रमुखं कार्यम् ।
९) मरुत् प्रभञ्जनो भूत्वा किं करोति ?
उत्तर - मरुत् प्रभञ्जन: भूत्वा रौद्रं रूपं धारयति । प्रभञ्जनेन जलधौ पर्वताकारा: तरङ्गा जायन्ते । नौका मज्जन्ति । भवनान्युत्पतन्ति । वृक्षा निपतन्ति । सकला सृष्टि: आकुलिता भवति ।
१०) भारतदेशे विद्युन्निर्मिति: कथं भवति ?
उत्तर - भारतदेशे पवनचक्रिकाभिर्विद्युन्निर्मिति: क्रियते ।
११) मरुत: किं दूषणम् ?
उत्तर - मरुत् भवनं दिधक्षो: वन्हे: सखा भवति एतद् मरुत: दूषणम् ।
प्रश्न २) कंसातील शब्दांची योग्य ती विभक्ती लिहा.
१) मरुत् जगत्प्राण इति नाम्ना प्रसिद्ध: । (नामन्)
२) वायु: विकसितानां कुसुमानां सौरभं वहति । (कुसुम)
३) मरुत् लोकान् सुखयति । (लोक)
४) पर्जन्य: वृष्ट्या सृष्टिं पोषयति । (वृष्टि)
५) वर्षाकाले मेघा: सलिलपूर्णा: सन्ति । (सलिलपूर्ण)
६) समीरणस्य स्पर्शेण जना: मोदन्ते । (स्पर्श)
७) नौका: वारिणि सलीलं विहरन्ति । (वारि)
८) अग्निना सह मरुत: सख्यम् । (अग्नि)
९) वाय़ु: नृपतिना सह प्रासाधसौधेषु विहरति । (नृपति)
१०) समीर: तापसेन सह पर्णाशालासु संचरति । (तापस)
११) वायो: सुजनेन सह दुर्जनेन सह च सख्यम् । (सुजन, दुर्जन)
१२) पर्जन्यवृष्टिकरणं मरुत: प्रमुखं कार्यम् । (मरुत्)
१३) पवचक्रिकाभि: विद्युन्निर्मिति: क्रियते । (पवनचक्रिका)
१४) मरुता जलधौ तरङ्गा: उद्भवन्ति । (मरुत्)
१५) मरुत् अग्ने: मित्रं भवति । (अग्नि)
प्रश्न ३) संधी सोडवा.
मरुतैव = मरुता + एव
तेनैव = तेन + एव
मरुतमभिनन्दति = मरुतम् + अभिनन्दति
तेषामाप्ता: = तेषाम् + आप्ता:
सुहृदस्ति = सुहृद् + अस्ति
प्राण इति = प्राण: + इति
मेघा जलं = मेघा: + जलम्
अत एष: = अत: + एष:
चन्द्रमसमिव = चन्द्रमसम् + इव
स यथा = स: + यथा
पर्णाशालास्वपि = पर्णशालासु + अपि
देहेष्वपि = देहेषु + अपि
अन्यान्यपि = अन्यानि + अपि
पवनचक्रिकाभिर्विद्युन्निर्मितिरपि =पवनचक्रिकाभि: + विद्युन्निर्मिति: + अपि
तरङ्गा जायन्ते = तरङा: +जाय़न्ते
नौका मज्जन्ति = नौका: + मज्जन्ति
भवनान्युत्पतन्ति = भवनानि + उत्पतन्ति
वृक्षा निपतन्ति = वृक्षा: + निपतन्ति
कवयो वदन्ति =कवय: + वदन्ति
प्राणास्त्वमेव = प्राणा: + त्वम् + एव
परितो विहृत्य = परित: + विहृत्य
No comments:
Post a Comment