Thursday, December 17, 2020

पाठ ७६ वा - दुर्बुद्धिर्विनश्यति

पाठ ७६ वा - दुर्बुद्धिर्विनश्यति


अस्ति मगधदेशे फुल्लोत्फुल्लनाम सर: तत्र सङ्कटविकटनामकौ हंसौ निवसत: तयोर्मित्रं कम्बुग्रीवनामा एक: कूर्मोऽपि तत्रैव प्रतिवसति स्म


अथ एकदा धीवरास्तत्रागच्छन्नकथयञ्च - वयमद्योषित्वा प्रातर्मत्स्यकूर्मादीन् व्यापादयिष्याम: एतच्छ्रुत्वा कूर्मो हंसावगदत् - “मित्रे,  युवां धीवराणां वार्तां किं आकर्णयथ ? अधुना किमहं करोमि ?” हंसावदताम् - “पश्य, प्रातर्यदुचितं तत्कर्तव्यम् कूर्मोऽवदत् - “मैवम् अहं भयभीतोऽस्मि तद् यथाऽहमन्यं ह्लदं गच्छामि तत् कुरुताम् हंसावदताम् - ‘आवां किं करवाव ?” कूर्मोऽवदत् - “अहं भवद्भ्यां सह आकाशमार्गेण अन्यत्र गन्तुमिच्छामि


हंसावदताम् - “कथमेष: उपाय: संभवति ?” कच्छपो वदति - “युवां काष्ठदण्डमेकं चञ्च्वा धारयताम् अहं काष्ठदण्डमध्ये अवलम्ब्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि हंसावकथयताम् - “सम्भवत्येष उपाय: किन्तु एकोऽपायोऽप्यत्र वर्तते उपायं चिन्तयन् प्राज्ञोऽपायमपि चिन्तयेत् आवाभ्यां नीयमानं त्वामवलोक्य जना: किञ्चिद् वदि

ष्यन्त्येव तदाकर्ण्य यदि त्वमुत्तरं दास्यसि तदा तव मरणं ध्रुवमेव अत: त्वमत्रैव वस तच्छ्रुत्वा क्रुद्ध: कूर्मोऽवदत् - “किमहमप्राज्ञ: ? उत्तरं दास्याम्यहम् किञ्चिदपि वदिष्यामि अतोऽहं यथा उक्तवान् तथा युवां कुरुतम्


एवं कृते काष्ठदण्डे लम्बमानं कूर्मं दृष्ट्वा गोपालका: पश्चादधावन्नवदञ्च - “हंहो महदाश्चर्यम् हंसाभ्यां सह कूर्मोऽपि उड्डीयते कश्चिद् वदति - “यद्ययं कूर्म: केनोपायेन निपतति तदा अत्रैव पक्त्वा खादिष्यामि अपरोऽवदत् - “सरस्तीरे दग्ध्वा खादिष्यामि अन्योऽकथयत् गृहं नीत्वा भक्षयिष्यामिइति


तेषां तद्वचनं श्रुत्वा कूर्मो मित्राभ्यां दत्तं वचनं विस्मृत्य कोपेनावदत् - “यूयं भस्म खादतइति वदन्नेव कूर्म आकाशात् पतितो गोपालकै: मारितश्च अत एवोक्तम् -


सुहृदां हितकामानां वाक्यं यो नाभिनन्दति

कूर्म इव दुर्बुद्धि: काष्ठाद् भ्रष्टो विनश्यति


प्रश्न ) संस्कृतभाषेत उत्तर द्या

) हंसौ कुत्र न्यवसताम् ?

) हंसयो: के नामधेये ?

) हंसयो: : सुहृद् ?

) धीवरा: मिथ: किमवदन् ?  

) धीवराणां वार्तां श्रुत्वा कूर्म: हंसौ किमवदत् ?

) कूर्म: कुत्र गन्तुमिच्छति ?

) कूर्म: केन मार्गेण हंसाभ्यां सह गन्तुमिच्छति ?

) कच्छप: कमुपायमसूचयत् ?

) प्राज्ञ: किं चिन्तयेत् ?

१०) हंसौ कूर्मं किमवदताम् ?

११) गोपालका: किमर्थमाश्चर्यचकिता अभवन् ?

१२) काष्ठदण्डे लम्बमानं कूर्मं दृष्ट्वा गोपालका: किमचिन्तयन् ?

१३) कूर्म: किं भणितुं मुखमुदघाटयत् ?


प्रश्न ) कंसातील सूचनांनुसार बदल करा.

) मगधदेशे सर: भवति स्म (स्म काढा.)

) सरस्तीरे हंसौ ---- (नि +वस् प्र. भूतकाळ वापरा.)

) कूर्मोऽपि तत्र प्रतिवसति स्म (स्म काढा.)

) धीवरा: तत्र आगच्छन् अकथयन् ( काढा.)

) वयमद्योषित्वा मत्स्यकूर्मादीन् हिंसाव: (त्वान्त काढा.)

) एतदाकर्ण्य कूर्मो हंसावगदत् (ल्यबन्त काढा)

) अधुना --- किं करोमि ? (योग्य कर्ता घाला)

) अहमन्यं ह्लदं गच्छामि (ह्लद शब्दाऐवजी सरस् शब्द वापरा.)

) कूर्म: --- सह --- मार्गेण अन्यत्र गन्तुमिच्छति (हंस, आकाशमार्ग)

१०) युवां काष्ठदण्डम् चञ्च्वा धारयताम् (वाक्य बहुवचनी करा.)

११) अहं काष्ठदण्डमध्ये अवलम्ब्य सुखेन गच्छामि (ल्यबन्त काढा.)

१२) प्राज्ञ: अपायमपि चिन्तयेत् (वाक्यात आज्ञार्थ वापरा.)

१३) त्वामवलोक्य जना: किञ्चिदपि वदन्ति (ल्यबन्त काढा.)

१४) तदाकर्ण्य क्रुद्ध: कूर्मोऽवदत् (ल्यबन्त काढा.)

१५) कूर्मं दृष्ट्वा गोपालका: पश्चादधावन् (ल्यबन्त काढा.)

१६) कूर्मं पक्त्वा खादामि (ल्यबन्त काढा.)

१७) कूर्मं गृहं नीत्वा भक्षयामि (ल्यबन्त काढा.)

१८) कूर्मो वचनं विस्मृत्य कोपेनावदत् (ल्यबन्त काढा.)

१९) यूयं भस्म खादत (कर्ता एकवचनात वापरा.)

२०) कूर्म: --- भ्रष्ट: (काष्ठ)

२१) हितकामानां ---- वाक्यमाकर्णयति (मित्र)


प्रश्न ) यापाठातील वर्तमानकाळी, भूतकाळी, आज्ञार्थी क्रियापदे त्वान्त आणि ल्यबन्त अव्ययांची यादी करा.


प्रश्न ) संधी सोडवा

) तयोर्मित्रं =

) कूर्मोऽपि =

) तत्रैव=

) धीवरास्तत्रागच्छन्नकथयञ्च =

) वयमद्योषित्वा =

) प्रातर्मत्स्यकूर्मादीन् =

) एतच्छ्रुत्वा = 

) कूर्मो हंसावगदत् = 

) हंसावदताम् = 

१०) प्रातर्यदुचितं =

११) मैवम् = 

१२) भयभीतोऽस्मि = 

१३) एकोऽपायोऽप्यत्र  = 

१४) तदाकर्ण्य = 

१५) पश्चादधावन्नवदञ्च 

१६) सरस्तीरे

१७) वदन्नेव =

१८) अत एवोक्तम् = 

१९) यो नाभिनन्दति  = 


प्रश्न ) खलील संधी करा.

) कूर्म: + अवदत् =

) हंसौ + अवदताम् =

) गन्तु + इच्छामि =

) कूर्म: + वदति =

) हंसौ + अकथयताम् =

) सम्भवति + एष: = 

) प्राज्ञ: + अपायम् = 

) वदन्ति + एव =

) अत्र + एव =

१०) यच्छामि + अहम् = 

११) अत: + अहम्

१२) कूर्म: + अपि = 

१३) यदि + अयम् = 

१४) अन्य: + अकथयत् 

१५) कूर्म: + मित्राभ्यां 

१६) कोपेन + अवदत्

१७) मारित: +  

१८) कूर्म: + इव

१९) भ्रष्ट: + विनश्यति


उत्तरे


भाषांतर -  

मगधदेशामधे फुल्लोत्फल्ल नावाचे सरोवर होते. तेथे संकट-विकट नावाचे दोन हंस रहात होते. कंबुग्रीव नावाचे कासव त्यांचा मित्र तेथेच रहात होते. 


नंतर एकदा कोळी तेथे आले आणि म्हणाले, “आपण आज राहून सकाळी मासे, कासवं वगैरेंना ठार मारूया”. हे ऐकून कासव हंसांना म्हणाले. “मित्रांनो, तुम्ही कोळ्यांचे बोलणे ऐकले का ? आता मी काय करू ?” हंस म्हणाले, “पहा, सकाळी जे योग्य वाटेल ते करावे.” कासव म्हणाले, “असं नको. मी घाबरलो आहे. तेव्हा मी दुसर्‍या तळ्यामधे जाऊ शकेन असे काहीतरी करा.” हंस म्हणाले, “आम्ही काय करणार ?” कासव म्ह्णाले, “मी आपल्या दोघांबरोबर आकाशमार्गाने जाऊ इच्छितो.”


हंस म्हणाले, “हा उपाय करणे कसे शक्य आहे ?” कासव म्हणाले, “तुम्ही दोघांनी एक काठी आपल्या चोचीने पकडा. मी त्या काठीच्या मधे लोंबकळेन तुमच्या पंखांच्या अशाय्याने सुखाने जाऊ शकेन.” हंस म्हणाले, “हा उपाय शक्य आहे. परंतु यामधे एक अपाय सुद्धा दिसून येतो. उपायाचा विचार करत असतांना शहाण्या मनुश्ःयाने अपायाचा (त्यामधील धोक्याचा) सुद्धा विचार कराय़ला हवा. आम्ही तुला तसे नेत असतांना तुला पाहून लोक काहीबाही बोलतीलच. ते ऐकून जर तू उत्तर दिलेस तर तुझे मरण नक्की आहे. तेव्हा तू येथेच रहा.” ते ऐकू रागावलेले कासव म्हणाले, “मी काय मूर्ख आहे ? उत्तर नाही देणार. काहीही बोलणार नाही. तेव्हा जसे मी सांगितले आहे तसे करा.”


हंसांनी तसे केल्यावर काठीवर लोंबकाळणारे कासव पाहून गुराखी त्याच्या मागे धावत गेले म्हणू लागले की, “अहो हे केवढे आश्चर्य आहे. हंसांबरोबर कासव सुद्धा उडत आहे ! *त्यातील एकजण म्हणाला, “जर हे कासव कोणत्यातरी उपायाने खाली पडेल तर त्याला येथेच शिजवून मी खाईन.” दुसरा गुराखी म्हणाला, “‘सरोवराच्या काठावर भाजून खाईन.” आणखी एकजण म्हणाला, “घरी नेऊन खाईन.” 


त्यांचे ते बोलणे ऐकून कासव आपल्या मित्रांना दिलेले वचन विसरून रागाने म्हणाले, “तुम्ही भस्म खा.” असे म्हणत असतानाच कासव आकाशातून खाली पडले गुराख्यांनी त्याला ठार मारले. म्हणून म्हटले आहे की


हितकर गोष्ट सांगणार्‍या मित्रांचे बोलणे जो मान्य करत नाही तो मनुष्य काठीपासून भ्रष्ट झालेले कासव जसे नाश पावले तसा नाश पावतो.


उत्तरे


प्रश्न ) संस्कृतभाषेत उत्तर द्या


) हंसौ कुत्र न्यवसताम् ?

उत्तर - हंसौ मगधदेशे फुल्लोत्फुल्ल नाम सरसः तीरेन्यवसताम्


) हंसयो: के नामधेये ?

उत्तर -  सङ्कटविकटौ हंसयोः नामधेये


) हंसयो: : सुहृद् ?

उत्तर - कम्बुग्रीवनामा एक: कूर्म: हंसयो: सुहृद्


) धीवरा: मिथ: किमवदन् ?

उत्तर - धीवराः मिथः अवदन्, “वयमद्योषित्वा प्रातर्मत्स्यकूर्मादीन् व्यापादयिष्याम:  

  

) धीवराणां वार्तां श्रुत्वा कूर्म: हंसौ किमवदत् ?

उत्तर - धीवराणां वार्तां श्रुत्वा कूर्म: हंसौ अवदत्, “मित्रे,  युवां धीवराणां वार्तां किं आकर्णयथ ? अधुना किमहं करोमि ?”  


) कूर्म: कुत्र गन्तुमिच्छति ?

उत्तर - कूर्म: अन्यं ह्लदं गन्तुमिच्छति


) कूर्म: केन मार्गेण हंसाभ्यां सह गन्तुमिच्छति ?

उत्तर - कूर्म: आकाशमार्गेण हंसाभ्यां सह गन्तुमिच्छति


) कच्छप: कमुपायमसूचयत् ?

उत्तर - कच्छपः उपायम् असूचयत्, “युवां काष्ठदण्डमेकं चञ्च्वा धारयताम् अहं काष्ठदण्डमध्ये अवलम्ब्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि


) प्राज्ञ: किं चिन्तयेत् ?

उत्तर - उपायं चिन्तयन् प्राज्ञोऽपायमपि चिन्तयेत्  


१०) हंसौ कूर्मं किमवदताम् ?

उत्तर -  हंसौ कूर्मम् अवदताम्, “आवाभ्यां नीयमानं त्वामवलोक्य जना: किञ्चिद् वदिष्यन्त्येव तदाकर्ण्य यदि त्वमुत्तरं दास्यसि तदा तव मरणं ध्रुवमेव अत: त्वमत्रैव वस  


११) गोपालका: किमर्थमाश्चर्यचकिता अभवन् ?

उत्तर - गोपालका: अपश्यन् यत् कूर्म: अपि हंसाभ्यां सह उड्डीयते अत: ते आश्चर्यचकिता: अभवन्


१२) काष्ठदण्डे लम्बमानं कूर्मं दृष्ट्वा गोपालका: किमचिन्तयन् ?

उत्तर - काष्ठदण्डे लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अचिन्तयन्, “यद्ययं कूर्म: केनोपायेन निपतति तदा अत्रैव पक्त्वा खादिष्याम:  


१३) कूर्म: किं भणितुं मुखमुदघाटयत् ?

उत्तर - “यूयं भस्म खादतइति भणितुं भणितुं कूर्म: मुखमुदघाटयत्


*** स्म काढा अशी सूचना आहे. वर्तमानकाळी क्रियापदापुढे स्म घातले की वाक्याचा अर्थ भूतकाळी होतो. स्म काढायचे याचा अर्थ वाक्यामधे भूतकाळ योजायचा.



प्रश्न ) कंसातील सूचनांनुसार बदल करा.

) मगधदेशे सर: भवति स्म (स्म काढा.)

मगधदेशे सर: अभवत्


) सरस्तीरे हंसौ ---- (नि +वस् प्र. भूतकाळ वापरा.)

सरस्तीरे हंसौ न्यवसताम्


) कूर्मोऽपि तत्र प्रतिवसति स्म (स्म काढा.)

कूर्मोऽपि तत्र प्रत्यवसत्


) धीवरा: तत्र आगच्छन् अकथयन् ( काढा.)

धीवरा: तत्र आगत्य अकथयन्


) वयमद्योषित्वा मत्स्यकूर्मादीन् हिंसाव: (त्वान्त काढा.)

वयमद्य वसाम: मत्स्यकूर्मादीन् हिंसाव:


) एतदाकर्ण्य कूर्मो हंसावगदत् (ल्यबन्त काढा)

एतद् आकर्णयत् कूर्मो हंसावगदत्


) अधुना --- किं करोमि ? (योग्य कर्ता घाला)

अधुना अहं किं करोमि ?


) अहमन्यं ह्लदं गच्छामि (ह्लद शब्दाऐवजी सरस् शब्द वापरा.)

अहमन्यं सर: गच्छामि


) कूर्म: --- सह --- मार्गेण अन्यत्र गन्तुमिच्छति (हंस, आकाशमार्ग)

कूर्म: हंसाभ्याम् सह आकाशमार्गेण गन्तुमिच्छति


१०) युवां काष्ठदण्डम् चञ्च्वा धारयताम् (वाक्य बहुवचनी करा.)

यूयं काष्ठदण्डं चञ्च्वा धारयन्ताम्


११) अहं काष्ठदण्डमध्ये अवलम्ब्य सुखेन गच्छामि (ल्यबन्त काढा.)

अहं काष्ठदण्डमध्ये अवलम्बे सुखेन गच्छामि


१२) प्राज्ञ: अपायमपि चिन्तयेत् (वाक्यात आज्ञार्थ वापरा.)

प्राज्ञ: अपायमपि चिन्तयतु


१३) त्वामवलोक्य जना: किञ्चिदपि वदन्ति (ल्यबन्त काढा.)

त्वामवलोकयन्ति जना: किञ्चिदपि वदन्ति


१४) तदाकर्ण्य क्रुद्ध: कूर्मोऽवदत् (ल्यबन्त काढा.)

तदाकर्णयत् क्रुद्ध: कूर्मोऽवदत्


१५) कूर्मं दृष्ट्वा गोपालका: पश्चादधावन् (त्वान्त काढा.)

कूर्मम् अपश्यन् गोपालका: अधावन्


१६) कूर्मं पक्त्वा खादामि (त्वान्त काढा.)

कूर्मं पचामि खादामि


१७) कूर्मं गृहं नीत्वा भक्षयामि (ल्यबन्त काढा.)

कूर्मं गृहं नयामि भक्षयामि


१८) कूर्मो वचनं विस्मृत्य कोपेनावदत् (ल्यबन्त काढा.)

कूर्म: वचनं व्यस्मरत् कोपेनावदत्


१९) यूयं भस्म खादत (कर्ता एकवचनात वापरा.)

त्वं भस्म खाद


२०) कूर्म: --- भ्रष्ट: (काष्ठ)

कूर्म: काष्ठात् भ्रष्ट:


२१) हितकामानां ---- वाक्यमाकर्णयति (मित्र)

हितकामानां मित्राणां वाक्यमाकर्णयति


प्रश्न ) यापाठातील वर्तमानकाळी, भूतकाळी, आज्ञार्थी क्रियापदे त्वान्त, ल्यबन्त आणि तुमन्त अव्ययांची यादी करा.


वर्तमानकाळी - अस्ति, निवसत:, प्रतिवसति, आकर्णयथ, करोमि, अस्मि, गच्छामि, करवाव, इच्छामि, सम्भवति, वदति, वर्तते, उड्डीयते, निपतति, अभिनन्दति, विनश्यति.


भूतकाळी - आगच्छन्, अकथयन्, अगदत्, अवदताम्, अवदत्, अकथयताम्, अधावन्, अवदन्.


आज्ञार्थी - पश्य, कुरुताम्, वस, कुरुतम्, खादत, धारयताम्


त्वान्त - उषित्वा, श्रुत्वा, दृष्ट्वा, पक्त्वा, दग्ध्वा, नीत्वा. 


ल्यबन्त - अवलम्ब्य, अवलोक्य, आकर्ण्य, विस्मृत्य 


तुमन्त - गन्तुम्


प्रश्न ) संधी सोडवा

) तयोर्मित्रं = तयो: + मित्रम्

) कूर्मोऽपि = कूर्म: + अपि

) तत्रैव = तत्र + एव

) धीवरास्तत्रागच्छन्नकथयञ्च =धीवरा: + तत्र + आगच्छन् + अकथयन् + च्

) वयमद्योषित्वा = वयम् + अद्य + उषित्वा

) प्रातर्मत्स्यकूर्मादीन् = प्रात: + मत्स्यकूर्मादीन्

) एतच्छ्रुत्वा = एतत् + श्रुत्वा

) कूर्मो हंसावगदत् = कूर्म: + हंसौ + अगदत्

) हंसावदताम् = हंसौ + अवदताम्

१०) प्रातर्यदुचितं = प्रात: + यद् + उचितं

११) मैवम् = मा + एवम्

१२) भयभीतोऽस्मि = भायभीत: + अस्मि 

१३) एकोऽपायोऽप्यत्र  = एक: + अपाय: + अत्र 

१४) तदाकर्ण्य = तद्आकर्ण्य 

१५) पश्चादधावन्नवदञ्च = पश्चात् + अधावन् + अवदन् +  

१६) सरस्तीरे = सर: + तीरे

१७) वदन्नेव = वदन् + एव

१८) अत एवोक्तम् = अत: + एव + उक्तम् 

१९) यो नाभिनन्दति  = : + + अभिनन्दति 


प्रश्न ) खलील संधी करा.

) कूर्म: + अवदत् = कूर्मोऽवदत्

) हंसौ + अवदताम् = हंसावदताम्

) गन्तु + इच्छामि = गन्तुमिच्छामि

) कूर्म: + वदति = कूर्मो वदति

) हंसौ + अकथयताम् = हंसावकथयताम्

) सम्भवति + एष: = सम्भवत्येष: 

) प्राज्ञ: + अपायम् = प्राज्ञोऽपायम् 

) वदन्ति + एव = वदन्त्येव

) अत्र + एव = अत्रैव

१०) यच्छामि + अहम् = यच्छाम्यहम् 

११) अत: + अहम्  = अतोऽहम्

१२) कूर्म: + अपि = कूर्मोऽपि 

१३) यदि + अयम् = यद्ययम् 

१४) अन्य: + अकथयत् = अन्योऽकथयत्  

१५) कूर्म: + मित्राभ्यां = कूर्मो मित्राभ्याम्  

१६) कोपेन + अवदत् = कोपेनावदत् 

१७) मारित: + = मारितश्च  

१८) कूर्म: + इव = कूर्म इव 

१९) भ्रष्ट: + विनश्यति = भ्रष्टो विनश्यति


" पाठ ७६ वा - दुर्बुद्धिर्विनश्यति " या Audio साठी खाली क्लिक् करा : 


[ Right click to 'save audio as' for downloading Audio ]
  

No comments:

Post a Comment

पाठ १२१ वा - स्वयं अध्ययनासाठी सुभाषिते

पाठ   १२१   वा  -  स्वयं अध्ययनासाठी सुभाषिते १ ) अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।   अजापुत्रं बलिं दद्यात् देवो दुर्...