पाठ ७७ वा - स्वयं अध्ययनासाठी कृषक-सर्पकथा
कस्मिन्नपि ग्रामे महादेव: नाम कृषक: प्रत्यवसत् । एकदा स: स्वक्षेत्रे भीषणं सर्पमपश्यत् । तदा सोऽचिन्तयत्, ‘एष मम क्षेत्रस्य रक्षक: । अत: तमहं पूजयामि ।’ तत: स एकं शरावमानयत् । तस्मिन् दुग्धमक्षिपत्, तं शरावं च वल्मीकस्य समीपमस्थापयत् अभणत् च, “भो: क्षेत्रदेव, केवलमज्ञानात् अहं त्वां कदापि नापूजयम् । अत: संप्रति क्षमस्व मां ।” प्रार्थनाया: अनन्तरं स: गृहमगच्छत् । अथ प्रात:काले स: क्षेत्रमगच्छत्शरावे चैकं सुवर्णनाणकमपश्यत् । एवं प्रतिदिनं स: भुजङ्गाय दुग्धमयच्छत् सुवर्णनाणकं चाध्यगच्छत् ।
कठिण शब्दांचे अर्थ -
शराव - मातीचे भांडे
वल्मीक - वारुळ
भाषांतर -
कोणत्यातरी एका गावात महादेव नावाचा एक शेतकरी रहात होता. एकदा त्याने आपल्या शेतामधे एक भयानक साप पाहिला. तेव्हा तो विचार करू लागला, “हा माझ्या शेताचा रक्षक आहे. म्हणून मी त्याची पूजा करीन.” नंतर त्याने एक मातीचे भांडे आणले, त्यात दूध घातले, ते मातीचे भांडे त्याने वारूळाच्या जवळ ठेवले व म्हणाला, “हे क्षेत्रदेवा, केवळ अज्ञानामुळे मी तुझी पूजा केली नाही. म्हणून आता तू मला क्षमा कर.” प्रार्थनेनंतर तो घरी गेला. नंतर सकाळी तो शेतात गेला व त्याने त्या मातीच्या भांड्यात एक सोन्याचे नाणे पाहिले. अशा प्रकारे तो दररोज सापाला दूध देत असे व एक सोन्याचे नाणे मिळवत असे.
पाठावरील प्रश्न
प्रश्न १) कंसातील सूचनेनुसार बदल करा.
१) कृषक: प्रत्यवसत् । (स्म या अव्ययाचा उपयोग करा.)
२) स: सर्पमपश्यत् । (दृश् धातू ऐवजी ईक्ष् १. आ. प. या धातूची योजना करा.)
३) स: अचिन्तयत् । (चिन्त् धातू आत्मनेपदी वापरा)
४) अहं तं पूजयामि । (वाक्य भूतकाळी करा.)
५) स: शरावम् आनयत् । (नी धातू आत्मनेपदी वापरा).
६) संप्रति --- माम् । (क्षम् आज्ञार्थ वापरा)
७) स: शरावे सुवर्णनाणकम् अपश्यत् । (दृश् धातू ऐवजी अव + लोक् १० प. धातू वापरा.)
८) स: ---- दुग्धं अयच्छत् । (अहि शब्द वापरा)
९) स: --- समीपे शरावन् अस्थापयत् । (वल्मीक शब्द वापरा).
१०) --- अनन्तरं स: अभणत् । (कार्य शब्द वापरा).
प्रश्न २) या पाठातील भूतकाळी रूपांची यादी करा.
प्रश्न ३) - प्रयोग बदला.
१) स: सर्पम् अपश्यत् ।
२) तम् अहं पूजयामि ।
३) स एकं शरावम् आनयत् ।
४) स: दुग्धमक्षिपत् ।
५) संप्रति क्षमस्व मां ।
६) स: सुवर्णनाणम् अपश्यत् ।
७) सुवर्णनाणकम् चाध्यगच्छत् ।
८) स: सर्पम् अभणत् ।
९) अहं त्वां कदापि न अपूजयम् ।
१०) कृषक: धान्यं लभते ।
प्रश्न ४) वरील कथेत जिथे आत्मनेपदी धातू वापरता येतील ते वापरून वरील कथा आत्मनेपदी भूतकाळात लिहा.
पाठावरील प्रश्न्नांची उत्तरे
प्रश्न १) कंसातील सूचनेनुसार बदल करा.
१) कृषक: प्रत्यवसत् । (स्म या अव्ययाचा उपयोग करा.)
कृषक: प्रतिवसति स्म ।
२) स: सर्पमपश्यत् । (दृश् धातू ऐवजी ईक्ष् १. आ. प. या धातूची योजना करा.)
स: सर्पम् ऐक्षत ।
३) स: अचिन्तयत् । (चिन्त् धातू आत्मनेपदी वापरा)
स: अचिन्तयत ।
४) अहं तं पूजयामि । (वाक्य भूतकाळी करा.)
अहं तम् अपूजयम् ।
५) स: शरावम् आनयत् । (नी धातू आत्मनेपदी वापरा).
स: शरावं आनयत ।
६) संप्रति त्वं --- माम् । (क्षम् आज्ञार्थ वापरा)
संप्रति त्वं क्षमस्व माम् ।
७) स: शरावे सुवर्णनाणकम् अपश्यत् । (दृश् धातू ऐवजी अव + लोक् १० प. धातू वापरा.)
स: शरावे सुवर्णनाणकम् अवालोकयत् ।
८) स: ---- दुग्धम् अयच्छत् । (अहि शब्द वापरा)
स: अहये दुग्धम् अयच्छत् ।
९) स: --- समीपे शरावम् अस्थापयत् । (वल्मीक शब्द वापरा).
स: वल्मीकस्य समीपे शरावम् अस्थापयत् ।
१०) --- अनन्तरं स: अभणत् । (कार्य शब्द वापरा).
कार्यात् अनन्तरं स: अभणत् ।
प्रश्न २) या पाठातील भूतकाळी रूपांची यादी करा.
प्रत्यवसत्, अपश्यत्, अचिन्तयत्, आनयत्, अक्षिपत्, अस्थापयत्, अभणत्, अपूजयम्, अगच्छत्, अयच्छत्, अध्यगच्छत्.
प्रश्न ३) - प्रयोग बदला.
१) स: सर्पम् अपश्यत् ।
तेन सर्प: अदृश्यत ।
२) तम् अहं पूजयामि ।
मया स: पूज्यते ।
३) स एकं शरावम् आनयत् ।
तेन एक: शराव: आनीयत ।
४) स: दुग्धमक्षिपत् ।
तेन दुग्धम् अक्षिप्यत ।
५) संप्रति क्षमस्व मां ।
संप्रति (त्वया) अहं क्षम्यै ।
६) स: सुवर्णनाणकम् अपश्यत् ।
तेन सुवर्णनाणकम् अदृश्यत ।
७) सुवर्णनाणकम् चाध्यगच्छत् ।
(तेन) सुवर्णनाणकं च अध्यगम्यत ।
८) स: सर्पम् अभणत् ।
तेन सर्प: अभण्यत ।
९) अहं त्वां कदापि न अपूजयम् ।
मया त्वं कदापि न अपूज्यथा: ।
१०) कृषक: धान्यं लभते ।
कृषकेन धान्यं लभ्यते ।
प्रश्न ४) वरील कथेत जिथे आत्मनेपदी धातू वापरता येतील ते वापरून वरील कथा आत्मनेपदी भूतकाळात लिहा.
कस्मिन्नपि ग्रामे महादेव: नाम कृषक: प्रत्यवसत् । एकदा स: स्वक्षेत्रे भीषणं सर्पम् अवालोकयत । तदा सो्: अचिन्तयत, ‘एष मम क्षेत्रस्य रक्षक: । अत: तमहं पूजये ।’ तत: स एकं शरावम् आनयत । तस्मिन् दुग्धम् अक्षिपत, तं शरावं च वल्मीकस्य समीपम् अस्थापयत अभाषत च, “भो: क्षेत्रदेव, केवलमज्ञानात् अहं त्वां कदापि ना् अपूजये । अत: संप्रति क्षमस्व माम् ।” प्रार्थनाया: अनन्तरं स: गृहमगच्छत् । अथ प्रात:काले स: क्षेत्रमगच्छत्शरावे चैकं सुवर्णनाणकम् ऐक्षत । एवं प्रतिदिनं स: भुजङ्गाय दुग्धमयच्छत् सुवर्णनाणकं च अविन्दत ।
No comments:
Post a Comment