पाठ ६९ वा - त्वान्त अव्ययांनी युक्त सुभाषिते
१) क्षारं जलं वारिमुच: पिबन्ति तदेव कृत्वा मधुरं वमन्ति ।
सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्गीरन्ति ॥
संधिविग्रह - क्षारं जलं वारिमुच: पिबन्ति तद् एव कृत्वा मधुरं वमन्ति ।
सन्त: तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्गीरन्ति ॥
अन्वय - वारिमुच: क्षारं जलं पिबन्ति, तद् एव मधुरं कृत्वा वमन्ति ।
तथा च सन्त: दुर्जनदुर्वचांसि पीत्वा सूक्तानि समुद्गीरन्ति ॥
अर्थ - मेघ खारट पाणी पितात व पाणी गोड करून वर्षाव करतात. त्याचप्रमाणे सज्जन लोक दुर्वचने पिऊन सुवचने व्यक्त करतात.
२) एकमप्यक्षरं यस्तु गुरु: शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्रव्यं यं दत्त्वाऽनृणी भवेत् ॥५२७॥
संधिविग्रह - एकम् अपि अक्षरं य: तु गुरु: शिष्ये निवेदयेत् ।
पृथिव्यां न अस्ति तद् द्रव्यं यं दत्त्वा अनृणी भवेत् ॥
अन्वय - य: तु गुरु: एकम् अपि अक्षरं शिष्ये निवेदयेत् ।
पृथिव्यां तद् द्रव्यं न अस्ति यं दत्त्वा अनृणी भवेत् ॥
अर्थ - जो गुरु एक जरी अक्षर आपल्या शिष्याला सांगेल तर त्याच्यासारखे पृथ्वीवर दुसरे धन नाही की ज्याला देऊन ऋणातून मुक्त होता येईल.
३) तृणं चाहं वरं मन्ये नरादनुपकारिण: ।
घासो भूत्वा पशून्पाति भीरून्पाति रणाङ्गणे ॥
संधिविग्रह - तृणं च अहं वरं मन्ये नरात् अनुपकारिण: ।*
घास: भूत्वा पशून् पाति भीरून् पाति रणाङ्गणे ॥
अन्वय - अहं अनुपकारिण: नरात् तृणं च वरं मन्ये । (यत्:) (तद् तृणं) घास: भूत्वा पशून् पाति, रणाङ्गणे भीरून् पाति ॥*
अर्थ - परोपकार न करणार्या मनुष्यापेक्षा गवत बरे असे मला वाटते. कारण ते पशूंचे अन्न होऊन पशूंचे रक्षण करते व समरांगणावर भित्र्याचे रक्षण करते.
४) यावज्जीवं सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुत: ॥
संधिविग्रह - यावत् जीवं सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुत: ॥
अन्वय - यावत् जीवं सुखं जीवेत्, ऋणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुत: ॥
अर्थ - जोपर्यंत जीवात जीव आहे तोपर्यंत सुखाने जगावे, वेळप्रसंगी ऋण काढून तूप प्यावे. (कर्ज काढून उपभोग भोगावेत). कारण एकदा देह भस्मीभूत झाला की तो परत का येणार आहे ?
५) अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।
अनुसृत्य सतां वर्त्म यदल्पमपि तद्बहु ॥
संधिविग्रह - अकृत्वा परसन्तापम् अगत्वा खलनम्रताम् । अनुसृत्य सतां वर्त्म यद् अल्पम् अपि तद् बहु ॥
अन्वय - अकृत्वा परसन्तापम्, अगत्वा खलनम्रतां, यद् अल्पम् सतां वर्त्म अनुसृत्य, तद् अपि बहु ॥
अर्थ - दुसर्याला त्रास न देता किंवा दुष्टाबरोबर नम्रतेने न वागता सज्जनांच्या मार्गाचे थोडे जरी अनुकरण केले तरी ते खूप आहे.
६) कामं क्रोधं मोहं त्यक्त्वाऽत्मानं भावय कोऽहम् कोऽहम् । आत्मज्ञानविहीना: मूढास्ते पच्यन्ते नरकनिगूढा: ॥
संधिविग्रह - कामं क्रोधं मोहं त्यक्त्वा आत्मानं भावय क: अहम् क: अहम् । आत्मज्ञानविहीना: मूढा: ते पच्यन्ते नरकनिगूढा: ॥
अन्वय - कामं क्रोधं मोहं त्यक्त्वा आत्मानं भावय । क: अहम् (इति भावय) । (ये) आत्मज्ञानविहीना: मूढा: ते नरकनिगूढा: पच्यन्ते ।
अर्थ - काम, क्रोध, लोभ, मोह सोडून मी कोण आहे याचा विचार कर. आत्मज्ञान नसलेले मूर्ख लोक नरकात टाकून शिजवले जातात.
७) हतोऽपि लभते स्वर्गं जित्वा तु लभते यश: ।
उभे बहुमते लोके नास्ति निष्फलता रणे ॥ (कर्णभार)
संधिविग्रह - हत: अपि लभते स्वर्गं जित्वा तु लभते यश: । उभे बहुमते लोके न अस्ति निष्फलता रणे ॥
अन्वय - हत: अपि लभते स्वर्गं, जित्वा तु लभते यश: । उभे बहुमते लोके, रणे निष्फलता न अस्ति ॥
अर्थ - (रणांगणावर) मृत्यु आला असता स्वर्गप्राप्ती होते व युद्धात जय मिळाला की कीर्ती मिळते. या दोन्ही गोष्टी जगामधे मान्य असतांना रणांगणावर कोणतीच गोष्ट निष्फल होत नाही.
८) सहकारे चिरं स्थित्वा वसन्ते बालकोकिल ।
तं हित्वान्यवृक्षेषु विचरन्न विलज्जसे ॥
संधिविग्रह - सहकारे चिरं स्थित्वा वसन्ते बालकोकिल ।
तं हित्वा अन्यवृक्षेषु विचरन् न विलज्जसे ॥
अन्वय - बालकोकिल, वसन्ते सहकारे चिरं स्थित्वा (तत:) तं हित्वा अन्यवृक्षेषु विचरन् न विलज्जसे ?
अर्थ - हे कोकिळ पक्षाच्या पिल्ला, वसंत ऋतूत आंब्याच्या झाडावर दीर्घकाळ बसून आणि नंतर तो सोडून दुसर्या वृक्षावर फिरतांना तुला लाज वाट्त नाही काय ?
स्वाध्याय -
प्रश्न १) - संस्कृतमधे प्रश्नांची उत्तरे द्या.
१) मेघा: किं कुर्वन्ति ?
२) सन्त: किं कुर्वन्ति ?
३) कवि: किं वरं मन्यते ? कुत: ?
४) चावाक: किं वदति ?
५) के नरके पच्यन्ते ?
६) रणं कथं सफलम् अस्ति ?
७) बालकोकिल: कुत्र तिष्ठति ?
प्रश्न २) कंसातील शब्दाची योग्य ती विभक्ती वापरा वा सूचनेनुसार बदल करा.
१) वारिमुच: जलं पिबन्ति । (वारिमुच् शब्दा ऐवजी मेघ शब्द वापरा)
२) सन्त: दुर्जनवचांसि पिबन्ति । वचस् ऐवजी वचन वापरा)
३) सन्त: सूक्तानि ---- । (सन्त: ऐवजी व सज्जन वापरा. भाष् वर्तमानकाळ)
४) --- त्रीणि रत्नानि सन्ति । (पृथिवी)
५) तृणं भीरून् रणाङ्गणे पाति । (पा ऐवजी रक्ष् धातू वापरा.
६) भस्मीभूतस्य देहस्य पुनरागमनं न --- । (भू धातूचा वर्तमानकाळ वापरा.)
७) त्वं खलनम्रतां मा --- । (गम् धातूचा आज्ञार्थ वापरा.)
प्रश्न ३ - त्वान्त अव्ययांच्या ऐवजी कालार्थ रूपे वापरा.
१) मेघा: क्षारं जलं पीत्वा मधुरं कुर्वन्ति ।
२) सज्जना: दुर्जनवचांसि पीत्वा सूक्तानि वदन्ति ।
३) दक्षिणां दत्वा ऋणमुक्त: भव ।
४) तृणं घास: भूत्वा पशून् पाति । (भूत्वा ऐवजी कालार्थ रूप वापरा.)
५) क्रोधं त्यक्त्वा शान्त: भव ।
६) नृप: शत्रून् जित्वा प्रत्यागच्छति ।
प्रश्न ४) - खालील सुभाषितांचा अर्थ सांगा.
१) मित्रेण कलहं कृत्वा न कदापि सुखी जन: ।
इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ॥
२) चित्ते भ्रान्तिर्जायते मद्यपानां भ्रान्ते चित्ते पापचर्याभ्युपैति ।
पापं कृत्वा दुर्गतिं यान्ति मूढा: तस्मान्मद्यं नैव पेयं न पेयम् ॥
३) न विना परिवादेन रमते दुर्जनो नर: ।
काक: सर्वरसान्पीत्वा विना मेध्यं न तृप्यति ॥
सरावासाठी स्वाध्याय़
प्रश्न १) -रूपे ओळखा.
वारिमुच:, पिबन्ति, कृत्वा, वमन्ति, वचांसि, पीत्वा, सूक्तानि, शिष्ये, पृथिव्याम्, दत्वा, मन्ये, अनुपकारिण:, भूत्वा भीरून्, पाति, अनुसृत्य, वर्त्म, त्यक्त्वा, आत्मानं, लभते, जित्वा, यश:, स्थित्वा, वस्न्ते, हित्वा, विलज्जसे
=============================================
६९ पाठ त्वान्त अव्ययांनी युक्त सुभाषिते - उत्तरे
प्रश्न १) - संस्कृतमधे प्रश्नांची उत्तरे द्या.
१) मेघा: किं कुर्वन्ति ?
मेघा: क्षारं जलं मधुरं कुर्वन्ति ।
२) सन्त: किं कुर्वन्ति ?
सन्त: दुर्जनवचांसि पीत्वा सूक्तानि समुद्गीरन्ति ।
३) कवि: किं वरं मन्यते ? कुत: ?
कवि: अनुपकारिण: नरात् तृणं वरं मन्यते । यत: तृणं घास: भूत्वा पशून पाति तथैव भीरु: शत्रु: शरणं आयाति, अत: भीरून् रणाङ्गणे पाति ।
४) चार्वाक: किं वदति ?
‘भस्मीभूत: देह: पुनरागमनं न करोति अत: यावज्जीवं सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत्’ इति चार्वाक: वदति ।
५) के नरके पच्यन्ते ?
ये आत्मज्ञानविहीना: ते अज्ञा: नरके पच्यन्ते ।
६) रणं कथं सफलम् अस्ति ?
रणे यदि मृत्युं लभते तर्हि योद्धा स्वर्गं लभते । यदि स: मृत्युम् आप्नोति तर्हि स: यश: लभते ।
७) बालकोकिल: कुत्र तिष्ठति ?
बालकोकिल: सहकारे तिष्ठति ।
प्रश्न २) कंसातील शब्दाची योग्य ती विभक्ती वापरा वा सूचनेनुसार बदल करा.
१) वारिमुच: जलं पिबन्ति । (वारिमुच् शब्दा ऐवजी मेघ शब्द वापरा)
मेघा: जलं पिबन्ति ।
२) सन्त: दुर्जनवचांसि पिबन्ति । वचस् ऐवजी वचन वापरा)
सन्त: दुर्जनवचनानि पिबन्ति ।
३) सन्त: सूक्तानि ---- । (सन्त: ऐवजी व सज्जन वापरा. भाष् वर्तमानकाळ)
सज्जना: सूक्तानि भाषन्ते ।
४) --- त्रीणि रत्नानि सन्ति । (पृथिवी)
पृथिव्यां त्रीणि रत्नानि सन्ति ।
५) तृणं भीरून् रणाङ्गणे पाति । (पा ऐवजी रक्ष् धातू वापरा.
तृणं भीरून् रणाङ्गणे रक्षति ।
६) भस्मीभूतस्य देहस्य पुनरागमनं न भवति । (भू धातूचा वर्तमानकाळ वापरा.)
७) त्वं खलनम्रतां मा गच्छ । (गम् धातूचा आज्ञार्थ वापरा.)
प्रश्न ३ - त्वान्त अव्ययांच्या ऐवजी कालार्थ रूपे वापरा.
१) मेघा: क्षारं जलं पीत्वा मधुरं कुर्वन्ति ।
मेघा: क्षारं जलं पिबन्ति मधुरं कुर्वन्ति च ।
२) सज्जना: दुर्जनवचांसि पीत्वा सूक्तानि वदन्ति ।
सज्जना: दुर्जनवचांसि पिबन्ति सूक्तानि वदन्ति च ।
३) दक्षिणां दत्वा ऋणमुक्त: भव ।
दक्षिणां यच्छ ऋणमुक्त: च भव ।
४) तृणं घास: भूत्वा पशून् पाति । (भूत्वा ऐवजी कालार्थ रूप वापरा.)
तृणं घास: भवति पशून् पाति च ।
५) क्रोधं त्यक्त्वा शान्त: भव ।
क्रोधं त्यज शान्त: च भव ।
६) नृप: शत्रून् जित्वा प्रत्यागच्छति ।
नृप: शत्रून् जयति प्रत्यागच्छति च ।
प्रश्न ४) - खालील सुभाषितांचा अर्थ सांगा.
१) मित्रेण कलहं कृत्वा न कदापि सुखी जन: ।
इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ॥
अर्थ - मित्राबरोबर भांडून लोक कधीही सुखी होत नाही. हे ेक्षात घेऊन प्रयत्नपूर्वक याच गोष्टी टाळाव्यात.
२) चित्ते भ्रान्तिर्जायते मद्यपानां भ्रान्ते चित्ते पापचर्याभ्युपैति । पापं कृत्वा दुर्गतिं यान्ति मूढा: तस्मान्मद्यं नैव पेयं न पेयम् ॥
अर्थ - मद्य पिणार्याचे चित्त अस्थिर बनते. चंचल चित्त झाले म्हणजे पापाचरण घडते. पापाचरण करून मूर्ख लोक अधोगतीला जातात. म्हणून कधी मद्य पिऊ नये.
३) न विना परिवादेन रमते दुर्जनो नर: ।
काक: सर्वरसान्पीत्वा विना मेध्यं न तृप्यति ॥
अर्थ - निंदा केल्याशिवाय दुर्जन मनु्ष्य रमत नाही. कावळा सर्व रस पिऊन सुद्धा मांस खाल्याशिवाय तृप्त होत नाही
" पाठ ६९ वा - त्वान्त अव्ययांनी युक्त सुभाषिते " या Audio साठी खाली क्लिक् करा :
No comments:
Post a Comment