पाठ ६३ वा - १७-१ आत्मनेपदी आज्ञार्थ
आजच्या पाठात आपण आत्मनेपदी आज्ञार्थाचे प्रत्यय पाहूया.
ऐ आवहै आमहै
स्व इथाम् ध्वम्
ताम् इताम् अन्ताम्
वन्द् ( १ आ. प.) = नमस्कार करणे
वन्द् + अ (विकरण) = वन्द (धातूचे अंग) आता प्रत्यय लागून अशी रूपे होतील
वन्दै वन्दावहै वन्दामहै
वन्दस्व वन्देथाम् वन्दध्वम्
वन्दताम् वन्देताम् वन्दन्ताम्
मन् (४ आ. प.) = मानणे
मन् + य (विकरण = मन्य (धातूचे अंग)
आता प्रत्यय लागून अशी रूपे होतील
मन्यै मन्यावहै मन्यामहै
मन्यस्व मन्येथाम् मन्यध्वम्
मन्यताम् मन्येताम् मन्यन्ताम्
विद्-विन्द् (६ उ. प.) - मिळवणे
विन्द् + अ (विकरण) = विन्द (धातूचे अंग) आता प्रत्यय लागून अशी रूपे होतील
विन्दै विन्दावहै विन्दामहै
विन्दस्व विन्देथाम् विन्दध्वम्
विन्दताम् विन्देताम् विन्दन्ताम्
चिन्त् (१० उ. प.)
चिन्त् + अय (विकरण) = चिन्तय (धातूचे अंग). आता प्रत्यय लागून अशी रूपे होतील
चिन्तयै चिन्तयावहै चिन्तयामहै
चिन्तयस्व चिन्तयेथाम् चिन्तयध्वम्
चिन्तयताम् चिन्तयेताम् चिन्तयन्ताम्
अहं वन्दै । आवां वन्दावहै । वयं वन्दामहै ।
त्वं वन्दस्व । युवां वन्देथाम् । यूयम् वन्दध्वम् ।
स:/सा वन्दताम् । तौ/ते वन्देताम् । ते/ता: वन्दन्ताम् ।
विजयादशमी
सुशीला - विजय, शीघ्रं बुध्यस्व ।
विजय: - (अर्धोन्मीलितनयन: एव) अम्ब, अद्य विजयादशमी नु ? विरामदिवस: एष: । अत: निद्रामि तावत् ।
सुशीला - जात, प्रबुध्यस्व । अद्य विजयादशमी ।
विजय: - मात:, किं करवै ?
सुशीला - वत्स, अद्य ब्राह्मे मुहूर्ते बुध्यस्व । अभ्यङ्गस्नानं कुरुष्व । नूतनाणि वस्त्राणि परिधारयस्व । देवान् गुरून् च वन्दस्व सरस्वतीं पूजयस्व खलु ।
विजय: - कुत्र खलु मम नूतनानि वस्त्राणि ?
सुशीला - प्रथममुत्तिष्ठतु तावत् भवान् । स्नानादनन्तरं नूतनानि वस्त्राणि परिधारयस्व ।
(स्नानादिकं समाप्य वस्त्राणि परिधाय आगच्छति)
विजय: - अम्ब, वन्दे ।
सुशीला - चिरं जीव । विजयी भव ।
विजय: - अपि गच्छानि गोपालेन साकं सीमोल्लङ्घनाय ?
सुशीला - चपल, मा त्वरस्व । आगच्छ, अन्नं सिद्धम् । यथेच्छं भक्षय । सायंकाले गच्छ सीमोल्लङ्घनाय ।
विजय: - मात:, किमर्थं एष: उत्सव: सम्पद्यते?
सुशीला - जात, अस्मिन्नेव मुहूर्ते श्रीरामचन्द्र: रावणविनाशाय प्रस्थित: । विजयादशम्यामेव पाण्डवा: शमीवृक्षे स्थापितानि शस्त्राणि गृहीतवन्त: । रघु: कुबेरं जेतुं अस्मिन्नेव दिने प्रस्थित: । तत: भीत: कुबेर: रघो: कोशागारे सुवर्णवृष्टिं करोति स्म ।
विजय: - अधुना बुध्यै, सीमोल्लङ्घनं नाम विजयस्य प्रतीकम् ।
सुशीला - आम् ।
विजय: - मात:, अस्मिन् दिने जना: शमीपत्राणि परस्परं वितरन्त्विति सङ्केत: । किमर्थं एषा प्रथा ?
सुशीला - वत्स, शमीपत्राणि सुवर्णस्य प्रतीकानि । पूर्वजानां शस्त्राणां प्रतीकानि । अत: तेषां वितरणं भवति । शमीपत्ररूपेण स्नेहस्यादानं प्रदानं भवताम् इति कल्पना । परस्परं स्नेह:, राष्ट्रस्य एकात्मता वर्धेताम् इति ।
विजय: - यदि एवं तर्हि अहमपि शमीरूपं सुवर्णं प्रयच्छानि ।
प्रश्न १) - संस्कृतमधे प्रश्नांची उत्तरे द्या.
१) विजय: केन सह सीमोल्लङ्घनाय गन्तुम् इच्छति ?
२) विजयादशम्यां के के विजयं लब्धवन्त: ?
३) सीमोल्लङ्घनं नाम किम् ?
४) पाण्डवा: कुत्र शस्त्राणि स्थापितवन्त: ?
५) रावणविनाशाय क: प्रस्थित: ?
६) कुबेर: कुत्र सुवर्णवृष्टिम् करोति स्म ?
७) अस्मिन् दिने जना: किं परस्परं वितरन्ति ?
८) शमीपत्राणि कस्य प्रतीकाणि ?
९) शामीपत्ररूपेण कस्य आदानं प्रदानं भवति ?
१०) विजयादशम्यां जना: कदा प्रबुध्यन्ति ?
११) माता विजयाय किम् आशीर्वादं यच्छति ?
प्रश्न २) - कंसातील सूचनांनुसार बदल करा.
१) विजय, ----- शीघ्रं बुध्यस्व । (योग्य कर्ता घाला).
२) अत: ---- निद्रामि । (योग्य कर्ता घाला).
३) ----- अभ्यङ्गस्नानं कुरुष्व । (योग्य कर्ता घाला).
४) देवान् गुरून् वन्दस्व । (वन्द् धातू ऐवजी नम् धातूचे योग्य ते रूप घाला.)
५) त्वं सरस्वतीं पूजयस्व । (पूज् धातू परस्मैपदी वापरा.)
६) भवान् --- । (त्रै-त्राय् (१ आ. प.) धातूचा आज्ञार्थ वापरा.
७) अम्ब, वन्दे । (वन्द् ऐवजी नम् धातू वापरा).
८) विजय: नूतनानि वस्त्राणि ---- । परि + धृ-धार् (१आ.प.) आज्ञार्थ वापरा.
९) विजय, --- (आ + गम् आज्ञार्थ वापरा).
१०) भीत: कुबेर: ---- करोति स्म । (सुवर्णावृष्टि)
११) जना: शमीपत्राणि --- । (वि+तृ-तर् १ आ.प. आज्ञार्थ वापरा)
१२) यूयं शमीपत्राणि --- । (वि+तृ-तर् १ आ.प. आज्ञार्थ वापरा)
१३)
प्रश्न ३) - कंसातील शब्दाची योग्य ती विभक्ती वापरा.
१) --- मुहूर्ते बुध्यस्व । (ब्राह्म)
२) ----- वस्त्राणि परिधारयस्व । (नव)
३) ---- अनन्तरं गच्छ । (स्नान)
४) ---- सह अहं गच्छामि । (रवि)
५) एतस्यां ----- श्रीराम: रावणविनाशाय प्रस्थित: । (तिथि)
६) अस्मिन् --- रघु: प्रस्थित: । (दिवस)
७) सीमोल्लङ्घनं नाम --- प्रतीकम् । (पराक्रम)
८) शमीपत्राणि सुवर्णस्य ---- । (प्रतीक)
सरावासाठी अभ्यास
प्रश्न १) - रूपे ओळखा - प्रबुध्यस्व, अम्ब, एष:, मात:, वस्त्राणि, परिधारयस्व, वन्दस्व, सरस्वतीं, पूजयस्व, तिष्ठतु, आगच्छति, वन्दे, जीव, भव, गच्छानि, त्वरस्व, आगच्छ, भक्षय, सम्पद्यते, वृक्षे, शस्त्राणि, कोशागारे, वृष्टिम्, बुद्यै, वितरन्तु, एषा, प्रतीकाणि, तेषाम्, भवति, भवताम्, वर्धेताम्, प्रयच्छानि.
प्रश्न २) खालील धातूंचा आज्ञार्थ लिहा.
प्रच्छ्-पिच्छ् (६आ.प.), नी-नय् (१ उ. प.), रम् (१ आ. प.), तुष् (४ प.), पद् (४ आ.), इष्-इच्छ् (६ प.), आ + दृ-द्रिय् (६ आ.), घुष्-घोष् (१० उ. प.).
प्रश्न ३) खालील शब्द पूर्ण करा.
मुनि: ----- -----
----- ----- कपिषु
वारिणा ----- -----
----- ------- कन्याभि:
मतये-मत्यै ----- -----
दास्या: ----- -----
===================================
पाठ ६३ ची उत्तरे
प्रश्नामधे काही टाईपिंगच्या चुका होत्या त्या दुरुस्त केल्या आहेत.
प्रश्न १) - संस्कृतमधे प्रश्नांची उत्तरे द्या.
१) विजय: केन सह सीमोल्लङ्घनाय गन्तुम् इच्छति ?
उत्तर - विजय: गोपालेन सह सीमोल्लङ्घनाय गन्तुम् इच्छति ?
२) विजयादशम्यां के के विजयात्रां प्रारब्धवन्त: ?
उत्तर - विजयादशम्यां राम:, पाण्डवा:, रघु: च विजययात्रां लब्धवन्त: ।
३) सीमोल्लङ्घनं नाम किम् ?
उत्तर - सीमोल्लङ्घनं नाम विजयस्य प्रतीकम् ।
*४) पाण्डवा: कुत्र शस्त्राणि स्थापितवन्त: *
उत्तर - पाण्डवा: शमीवृक्षे शस्त्राणि स्थापितवन्त: ।
५) रावणविनाशाय क: प्रस्थित: ?
उत्तर - रावणविनाशाय राम: प्रस्थित: ।
६) कुबेर: कुत्र सुवर्णवृष्टिम् करोति स्म ?
उत्तर - कुबेर: रघो: कोशागारे सुवर्णवृष्टिम् करोति स्म ।
७) अस्मिन् दिने जना: किं परस्परं वितरन्ति ?
उत्तर - अस्मिन् दिने जना: शमीपत्राणि परस्परं वितरन्ति
८) शमीपत्राणि कस्य प्रतीकानि ?
उत्तर - शमीपत्राणि विजयस्यस्य प्रतीकानि तथा च पूर्वजानां शास्त्राणां प्रतीकानि ।
९) शामीपत्ररूपेण कस्य आदानं प्रदानं भवति ?
उत्तर - शामीपत्ररूपेण स्नेहस्य आदानं प्रदानं भवति ।
१०) विजयादशम्यां जना: कदा प्रबुध्यन्ति ?
उत्तर - विजयादशम्यां जना: कदा प्रबुध्यन्ते ?
विजयादशम्यां जना: ब्राह्मे मुहूर्ते प्रबुध्यन्ते ।
११) माता विजयाय किम् आशीर्वादं यच्छति ?
उत्तर - ‘चिरं जीव, विजयी भव’ इति आशीर्वादं माता विजयाय प्रयच्छति ।
=======================================
६३ पाठ ची उत्तरे
प्रश्न २) - कंसातील सूचनांनुसार बदल करा.
१) विजय, त्वं शीघ्रं बुध्यस्व । (योग्य कर्ता घाला).
२) अत: अहं निद्रामि । (योग्य कर्ता घाला).
३) त्वं अभ्यङ्गस्नानं कुरुष्व । (योग्य कर्ता घाला).
४) देवान् गुरून् वन्दस्व । (वन्द् धातू ऐवजी नम् धातूचे योग्य ते रूप घाला.)
देवान् गुरून् नम ।
५) त्वं सरस्वतीं पूजयस्व । (पूज् धातू परस्मैपदी वापरा.)
त्वं सरस्वतीं *पूजय ।
६) भवान् त्रायताम्। (त्रै-त्राय् (१ आ. प.) धातूचा आज्ञार्थ वापरा.
७) अम्ब, वन्दे । (वन्द् ऐवजी नम् धातू वापरा).
अम्ब नमामि ।
८) विजय: नूतनानि वस्त्राणि ---- । परि + धृ-धार् (१आ.प.) आज्ञार्थ वापरा.
विजय: नूतनाणि वस्त्राणि परिधारयताम् ।
९) विजय, --- (आ + गम् आज्ञार्थ वापरा).
विजय आगच्छ ।
१०) भीत: कुबेर: ---- करोति स्म । (सुवर्णवृष्टि)
भीत: कुबेर: सुवर्णवृष्टिं करोति स्म ।
११) जना: शमीपत्राणि --- । (वि+तृ-तर् १ प. प. आज्ञार्थ वापरा)
जना: शमीपत्राणि वितरन्ताम् ।
१२) यूयं शमीपत्राणि --- । (वि+तृ-तर् १ प.प. आज्ञार्थ वापरा)
यूयं शमीपत्राणि वितरत
=============================
प्रश्न ३) - कंसातील शब्दाची योग्य ती विभक्ती वापरा.
१) ब्राह्मे मुहूर्ते बुध्यस्व । (ब्राह्म)
२) नवानि वस्त्राणि परिधारयस्व । (नव)
३) स्नानात् अनन्तरं गच्छ । (स्नान)
४) रविणा सह अहं गच्छामि । (रवि)
५) एतस्यां --तिथ्यां / तिथौ --- श्रीराम: रावणविनाशाय प्रस्थित: । (तिथि)
६) अस्मिन् दिवसे रघु: प्रस्थित: । (दिवस)
७) सीमोल्लङ्घनं नाम पराक्रमस्य प्रतीकम् । (पराक्रम)
८) शमीपत्राणि सुवर्णस्य प्रतीकानि । (प्रतीक)
=========================================
No comments:
Post a Comment