Tuesday, August 18, 2020

पाठ ४५ वा संस्कृतभाषा न कठिना !

पाठ ४५ वा संस्कृतभाषा न कठिना ! 

(एष: शिक्षिकया सह बालानां संवाद:)

अध्यापिका - सुवर्णे, त्वं किं करोषि ?
अध्यापिका - सुवर्णा, तू काय करत आहेस ?

सुवर्णा - आचार्ये, अहं संस्कृतभाषां पठामि । संस्कृतभाषा कठिना अस्ति किम् ? 

सुवर्णा - आचार्ये, मी संस्कृतभाषा वाचत आहे. संस्कृतभाषा कठीण आहे का ?

अध्यापिका - न हि, न हि, सा तु अतीव सरला, सुबोधा सरसा चास्ति । 

अध्यापिका - नाही, नाही, ती तर अतिशय सरळ, सुबोध व सरस आहे.

महेश: - आचार्ये, संस्कृतभाषा न अस्माकं व्यवहारभाषा, न वा विश्वभाषा । तथापि संस्कृताध्ययनं किमर्थं कर्तव्यम् ? 

महेश - आचार्ये, संस्कृतभाषा आपली व्यवहाराची भाषा नाही अथवा जगाचीही भाषा नाही. मग संस्कृतचे शिक्षण कशाला घ्याय़चे ?

अध्यापिका - शोभन: प्रश्न: । महेश, संकृतभाषा अस्माकं प्राचीना भाषा । संस्कृतभाषाया: अध्ययनेन अन्यभाषाणामध्ययनं सुकरं भवति । सर्वासां भारतीयभाषाणां अग्रजा खलु संस्कृतभाषा । 

अध्यापिका - छान प्रश्न आहे. महेश, संस्कृत भाषा आपली प्राचीन भाषा आहे. संस्कृतभाषेच्या अध्ययनाने इतर भाषांचे अध्ययन करणे सोपे होते. सर्व भारतीय भाषांची खरतर संस्कृतभाषा ही मोठी बहीणच आहे.

पूजा - आचार्ये, अन्ये के के लाभा: संस्कृतभाषाध्ययनेन भवन्ति ?
पूजा - आचार्ये, संस्कृतभाषेच्या अध्ययनाने इतर कोणते फायदे होतात ?

अध्यापिका -  संस्कृतभाषायां बहूनि गेयानि मधुराणि च सुभाषितानि । तथा च वक्तृत्वकलायां निपुणतासम्पादनार्थं तानि अतीवोपयुक्तानि । उच्चारणशुद्धता अपि लभते संस्कृताध्ययनेन । 

अध्यापिका - संस्कृतभाषेत खूप गाण्याजोगी व मधुर अशी सुभाषिते आहेत. तसेच वकृत्वकलेत नैपुण्य मिळवण्यासाठी ती अतिशय उपयुक्त आहेत. संस्कृतभाषेच्या अध्ययनाने उच्चार सुद्धा शुद्ध होतात.

दीपाली - आचार्ये, ‘संस्कृतभाषायां विपुलं, समृद्धं साहित्यं वर्तते’ इति जना: वदन्ति । अपि सत्यमेतत् ? 

दीपाली - आचार्ये, ‘संस्कृतभाषेत विपुल व समृद्ध साहित्य आहे असे’ लोक म्हणातात. ही गोष्ट खरी आहे का ?

अध्यापिका - आम्, बहव: कवय: स्वकाव्यै: संस्कृतभाषां भूषयन्ति । वाल्मीके: रामायणं श्रीव्यासस्य महाभारतं च अस्माकं आर्षमहाकाव्ये (स्त:)।
अध्यापिका - होय. खूप कवींनी स्वत:च्या काव्यानी संस्कृतभाषेला भूषवले आहे. वाल्मीकींचे रामायण व श्रीव्यासमहर्षींचे महाभारत ही आपली (दोन) आर्ष महाकाव्ये आहेत.

प्रीति: - आचार्ये, संस्कृतभाषायां शास्त्रीया: ग्रन्था: अपि विद्यन्ते किम् ?
प्रीती - आचार्ये, संस्कृतभाषेमधे शास्त्रीयग्रंथ सुद्धा आहेत का ?

अध्यापिका -  अथ किम् । प्राचीनकालेऽपि व्याकरणशास्त्रं, खगोलशास्त्रं, गणितशास्त्रं, स्थापत्यशास्त्रं वैद्यकशास्त्रमित्यादीनि नैकानि शास्त्राणि विकसितानि आसन् । भारतीयतत्वज्ञानं निखिले जगति प्रसिद्धं तत्वज्ञानमस्ति । ‘संस्कृति: संस्कृताश्रिता’ खलु । अत: भारतीयसंस्कृते: यथार्थज्ञानार्थं संस्कृतभाषाध्ययनमावश्यकमेव । 

अध्यापिका - हो ना ! प्राचीनकाळी सुद्धा व्याकरणाशास्त्र, खगोलशास्त्रं, गणितशास्त्रं, स्थापत्यशास्त्रं वैद्यकशास्त्र, इत्यादी अनेक शास्त्रे विकसित झालेली होती. भारतीय तत्वज्ञान सर्व जगात प्रसिद्ध तत्वज्ञान आहे. ‘संस्कृती ही संस्कृताश्रित असते’. म्हणून भारतीय संस्कृतीच्या यथार्थ ज्ञानासाठी संस्कृतभाषेचे अध्ययन आवश्यकच आहे.
 
स्वाध्याय
प्रश्न १ - संस्कृतभाषायां उत्तरत ।

    १) संस्कृतभाषा कीदृशी अस्ति ?
    २) संस्कृतभषाया: अध्ययनं किमर्थं कर्तव्यम् ?
    ३) का प्राचीना भाषा ?
    ४) संस्कृतभषाध्ययनेन के के लाभा: भवन्ति ?
    ५) सुभाषितानि कीदृशानि ?
    ६) प्राचीनकाले कानि शास्त्राणि विकसितानि आसन् ?
    ७) के आर्षमहाकाव्ये ?
    ८) संस्कृतभाषा कासाम् अग्रजा ?
    ९) सुभाषितानि किमर्थम् उपयुक्तानि ?
    १०) का लोकोक्ति: प्रसिद्धा ?
    ११) भारतीयसंस्कृते: यथार्थज्ञानं कथं भावति ?

प्रश्न २ रा रिक्तस्थानानि उचितेन शब्देन पूरयत ।
    १) त्वं संस्कृतभाषां ------ (पठ् वर्तमान)
    २) संस्कृतभाषा न ----- (कठिन)
    ३) -----, संस्कृतभाषा मह्यं रोचते । (कविता - संबोधन)
    ४) प्रश्न: ---- अस्ति । (शोभन)
    ५) संस्कृतभाषाया: ----- (अध्ययन) अन्यभाषाणाम् अध्ययनं --- (सुकर)
भवति ।
    ६) ---- (संस्कृतभाषा) बहूनि गेयानि ---- (सुभाषित)।
    ७) ---- अध्ययनेन उच्चारणशुद्धता लभते । (संस्कृतभाषा)
    ८) ----- (संस्कृतभाषा) विपुलं, समृद्धं ---- (साहित्य) वर्तते ।
    ९) वाल्मीकि: रामायणं --- (लिख् - वर्त.) स्म ।
    १०) अस्माकं द्वे ---- (आर्षमहाकाव्य) ।

प्रश्न ३) रिक्तस्थानानि पूरयत ।
स्था-तिष्ठ्(१ प.)
तिष्ठामि   -------   ------

 वृत्-वर्त् (१ आ.)  
------   वर्तेथे  ------

दिश् (६ उ.प.)
----   ----  दिशथ
----   दिशेथे ----

युध् (४ आ)
युध्यते  -----   ------

कुप् (४ प.)
कुप्यति -----   ------

अर्थ् (१० आ.)
-----   अर्थयावहे  ------

तड्-ताड् (१० उ.प.)
ताडयति -----   ------
-----  -----   ताडयन्ते

span style="color: blue;"> " संस्कृतभाषा न कठिना ! " या Audio साठी खाली क्लिक् करा : 

[ Right click to 'save audio as' for downloading Audio ] 
 
=======================================
 
गणपती पाठावरील स्वाध्याय व संस्कृत भाषा न कठिना या पाठावरील स्वाध्याय.

तो  ते दोघे  ते सर्व प्रथमा

त्याला त्या दोघांना त्या सर्वांना द्वितीया

त्याने त्या दोघांनी त्या सर्वांनी  तृतीया

त्याला त्या दोघांना त्या सार्वांना चतुर्थी

त्याच्यापासून त्या दोघांपासून त्या सर्वांपासून
पंचमी

त्याचे त्या दोघांचे त्या सर्वांचे  षष्ठी

त्याच्यामधे  त्या दोघांमधे  त्या सर्वांमधे सप्तमी

असेच सर्वच सर्वनामांचे अर्थ होतील. 
 
पाठ ४५ ची उत्तरे -

संस्कृत अध्ययन
पाठ ४५
संस्कृतभाषा न कठिना ।
(एष: शिक्षिकया सह बालानां संवाद:)

अध्यापिका - सुवर्णे, त्वं किं करोषि ?
अध्यापिका - सुवर्णा, तू काय करत आहेस ?

सुवर्णा - आचार्ये, अहं संस्कृतभाषां पठामि । संस्कृतभाषा कठिना अस्ति किम् ?
सुवर्णा - आचार्ये, मी संस्कृतभाषा वाचत आहे. संस्कृतभाषा कठीण आहे का ?

अध्यापिका - न हि, न हि, सा तु अतीव सरला, सुबोधा सरसा चास्ति ।
अध्यापिका - नाही, नाही, ती तर अतिशय सरळ, सुबोध व सरस आहे.

महेश: - आचार्ये, संस्कृतभाषा न अस्माकं व्यवहारभाषा, न वा विश्वभाषा । तथापि संस्कृताध्ययनं किमर्थं कर्तव्यम् ?
महेश - आचार्ये, संस्कृतभाषा आपली व्यवहाराची भाषा नाही अथवा जगाचीही भाषा नाही. मग संस्कृतचे शिक्षण कशाला घ्याय़चे ?

अध्यापिका - शोभन: प्रश्न: । महेश, संकृतभाषा अस्माकं प्राचीना भाषा । संस्कृतभाषाया: अध्ययनेन अन्यभाषाणामध्ययनं सुकरं भवति । सर्वासां भारतीयभाषाणां अग्रजा खलु संस्कृतभाषा ।
अध्यापिका - छान प्रश्न आहे. महेश, संस्कृत भाषा आपली प्राचीन भाषा आहे. संस्कृतभाषेच्या अध्ययनाने इतर भाषांचे अध्ययन करणे सोपे होते. सर्व भारतीय भाषांची खरतर संस्कृतभाषा ही मोठी बहीणच आहे.

पूजा - आचार्ये, अन्ये के के लाभा: संस्कृतभाषाध्ययनेन भवन्ति ?
पूजा - आचार्ये, संस्कृतभाषेच्या अध्ययनाने इतर कोणते फायदे होतात ?

अध्यापिका -  संस्कृतभाषायां बहूनि गेयानि मधुराणि च सुभाषितानि । तथा च वक्तृत्वकलायां निपुणतासम्पादनार्थं तानि अतीवोपयुक्तानि । उच्चारणशुद्धता अपि लभते संस्कृताध्ययनेन ।
अध्यापिका - संस्कृतभाषेत खूप गाण्याजोगी व मधुर अशी सुभाषिते आहेत. तसेच वकृत्वकलेत नैपुण्य मिळवण्यासाठी ती अतिशय उपयुक्त आहेत. संस्कृतभाषेच्या अध्ययनाने उच्चार सुद्धा शुद्ध होतात.

दीपाली - आचार्ये, ‘संस्कृतभाषायां विपुलं, समृद्धं साहित्यं वर्तते’ इति जना: वदन्ति । अपि सत्यमेतत् ?
दीपाली - आचार्ये, ‘संस्कृतभाषेत विपुल व समृद्ध साहित्य आहे असे’ लोक म्हणातात. ही गोष्ट खरी आहे का ?

अध्यापिका - आम्, बहव: कवय: स्वकाव्यै: संस्कृतभाषां भूषयन्ति । वाल्मीके: रामायणं श्रीव्यासस्य महाभारतं च अस्माकं आर्षमहाकाव्ये (स्त:)।
अध्यापिका - होय. खूप कवींनी स्वत:च्या काव्यानी संस्कृतभाषेला भूषवले आहे. वाल्मीकींचे रामायण व श्रीव्यासमहर्षींचे महाभारत ही आपली (दोन) आर्ष महाकाव्ये आहेत.

प्रीति: - आचार्ये, संस्कृतभाषायां शास्त्रीया: ग्रन्था: अपि विद्यन्ते किम् ?
प्रीती - आचार्ये, संस्कृतभाषेमधे शास्त्रीयग्रंथ सुद्धा आहेत का ?

अध्यापिका -  अथ किम् । प्राचीनकालेऽपि व्याकरणशास्त्रं, खगोलशास्त्रं, गणितशास्त्रं, स्थापत्यशास्त्रं वैद्यकशास्त्रमित्यादीनि नैकानि शास्त्राणि विकसितानि आसन् । भारतीयतत्वज्ञानं निखिले जगति प्रसिद्धं तत्वज्ञानमस्ति । ‘संस्कृति: संस्कृताश्रिता’ खलु । अत: भारतीयसंस्कृते: यथार्थज्ञानार्थं संस्कृतभाषाध्ययनमावश्यकमेव ।
अध्यापिका - हो ना ! प्राचीनकाळी सुद्धा व्याकरणाशास्त्र, खगोलशास्त्रं, गणितशास्त्रं, स्थापत्यशास्त्रं वैद्यकशास्त्र, इत्यादी अनेक शास्त्रे विकसित झालेली होती. भारतीय तत्वज्ञान सर्व जगात प्रसिद्ध तत्वज्ञान आहे. ‘संस्कृती ही संस्कृताश्रित असते’. म्हणून भारतीय संस्कृतीच्या यथार्थ ज्ञानासाठी संस्कृतभाषेचे अध्ययन आवश्यकच आहे.
 
स्वाध्याय
प्रश्न १ - संस्कृतभाषायां उत्तरत ।

१) संस्कृतभाषा कीदृशी अस्ति ?
उत्तर - संस्कृतभाषा अतीव सरला, सुबोधा सरसा च अस्ति ।

२) संस्कृतभषाया: अध्ययनं किमर्थं कर्तव्यम् ?
उत्तर - संकृतभाषा अस्माकं प्राचीना भाषा । संस्कृतभाषाया: अध्ययनेन अन्यभाषाणामध्ययनं सुकरं भवति । अत: संस्कृतभाषाया: अध्ययनं कर्तव्यम् ।

३) का प्राचीना भाषा ?
उत्तर - संकृतभाषा अस्माकं प्राचीना भाषा ।

४) संस्कृतभषाध्ययनेन के के लाभा: भवन्ति ?
उत्तर - संस्कृतभाषायां बहूनि गेयानि मधुराणि च सुभाषितानि । तथा च वक्तृत्वकलायां निपुणतासम्पादनार्थं तानि अतीवोपयुक्तानि । उच्चारणशुद्धता अपि लभते संस्कृताध्ययनेन ।
 
५) सुभाषितानि कीदृशानि ?
उत्तर - सुभाषितानि गेयानि मधुराणि च ।

६) प्राचीनकाले कानि शास्त्राणि विकसितानि आसन् ?
उत्तर - प्राचीनकालेऽपि व्याकरणशास्त्रं, खगोलशास्त्रं, गणितशास्त्रं, स्थापत्यशास्त्रं वैद्यकशास्त्रमित्यादीनि नैकानि शास्त्राणि विकसितानि आसन् ।

७) के आर्षमहाकाव्ये ?
उत्तर - वाल्मीके: रामायणं श्रीव्यासस्य महाभारतं च अस्माकं आर्षमहाकाव्ये

८) संस्कृतभाषा कासाम् अग्रजा ?
उत्तर - संस्कृतभाषा सर्वासां भारतीयभाषाणां अग्रजा ।

९) सुभाषितानि किमर्थम् उपयुक्तानि ?
उत्तर - सुभाषितानि वक्तृत्वकलायां निपुणतासम्पादनार्थं तानि अतीवोपयुक्तानि ।

१०) का लोकोक्ति: प्रसिद्धा ?
उत्तर - ‘संस्कृति: संस्कृताश्रिता’ इति लोकोक्ति: प्रसिद्धा ।

११) भारतीयसंस्कृते: यथार्थज्ञानं कथं भवति ?
उत्तर - संस्कृतभाषाध्ययनेन भारतीयसंस्कृते: यथार्थज्ञानं भवति ।

प्रश्न २ रा रिक्तस्थानानि उचितेन शब्देन पूरयत ।

१) त्वं संस्कृतभाषां पठसि (पठ् वर्तमान)
२) संस्कृतभाषा न कठिना (कठिन)
३) कविते, संस्कृतभाषा मह्यं रोचते । (कविता - संबोधन)
४) प्रश्न: शोभन: अस्ति । (शोभन)
५) संस्कृतभाषाया: अध्ययनेन (अध्ययन) अन्यभाषाणाम् अध्ययनं सुकरं (सुकर)
भवति ।
६) संस्कृतभाषायां (संस्कृतभाषा) बहूनि गेयानि सुभाषितानि (सुभाषित)।
७) संस्कृतभाषाया: अध्ययनेन उच्चारणशुद्धता लभते । (संस्कृतभाषा)
८) संस्कृतभाषायां (संस्कृतभाषा) विपुलं, समृद्धं साहित्यं (साहित्य) वर्तते ।
९) वाल्मीकि: रामायणं लिखति (लिख् - वर्त.) स्म ।
१०) अस्माकं द्वे आर्षमहाकाव्ये (आर्षमहाकाव्य) ।

प्रश्न ३) रिक्तस्थानानि पूरयत ।
स्था-तिष्ठ्(१ प.)
तिष्ठामि   तिष्ठाव:   तिष्ठाम:

 वृत्-वर्त् (१ आ.)   
वर्तसे   वर्तेथे  वर्तध्वे

दिश् (६ उ.प.)
दिशसि   दिशथ:  दिशथ
दिशसे   दिशेथे   दिशध्वे

युध् (४ आ)
युध्यते   युध्येते   युध्यन्ते

कुप् (४ प.)
कुप्यति कुप्यत:   कुप्यन्ति

अर्थ् (१० आ.)
अर्थेये   अर्थयावहे  अर्थयामहे

तड्-ताड् (१० उ.प.)
ताडयति ताडयत: ताडयन्ति
ताडयते  ताडयेते   ताडयन्ते

No comments:

Post a Comment

पाठ १२१ वा - स्वयं अध्ययनासाठी सुभाषिते

पाठ   १२१   वा  -  स्वयं अध्ययनासाठी सुभाषिते १ ) अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।   अजापुत्रं बलिं दद्यात् देवो दुर्...