Monday, September 28, 2020

पाठ ५९ - विशेषणांनी युक्त पाठ सुभाषितानि


 पाठ ५९ - विशेषणांनी युक्त पाठ        सुभाषितानि

    सुभाषितं नाम शोभनं भाषितम् । संस्कृतभाषायां बहूनि गेयानि सुभाषितानि सन्ति । सुभाषितान्येतानि मधुराणि च । अन्योक्तय: प्रहेलिका:, समस्या: इत्यादय: सुभाषितानां विविधा: प्रकारा: । यद्यप्यल्पाक्षराणि सुभाषितानि तथापि महान्तमर्थं सूचयन्ति तानि ।


    क: अपि सुभाषितकार: वदति, 'विद्याविहीन: पशु:' । अपर: वदति, 'परोपकारार्थमिदं शरीरम्' । कश्चन वदति, 'शीलं परं भूषणम्' । कानिचित् सुभाषितानि सज्जनान् प्रशंसन्ति, कानिचित् दुर्जनान् निन्दन्ति । कानिचित् उद्यमस्य श्रेष्ठत्वं वर्णयन्त्यन्यान्यलसस्य दोषान् कथयन्ति । कानिचित् सुभाषितानि दानस्य माहात्म्यं वर्णयन्ति, अपराणि धनस्यासारत्वं कथयन्ति । एवं सुभाषितानां विषया: भिन्ना: । 


    सुभाषितरसास्वाद: अस्माकं दु:खमपहरति, सुखं वर्धयति अस्मानुपदिशति च । वयं अन्नपदार्थानां सेवनेन क्षणिकां तृप्तिं विन्दाम: । किन्तु सुभाषितरसास्वाद: शाश्वतमानन्दं यच्छति ।


    छात्रै: सुभाषितान्यवश्यं कण्ठस्थीकरणीयानि । उत्कृष्टनिबन्धलेखनार्थं तान्यतीवोपयुक्तानि । सुभाषितानां पठनेन वाणी सुसंस्कृता निर्दोषा च भवति ।


    सत्यमेव एतद् वचनं यत् -

    पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
    मूढै: पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥


कठिण शाब्दांचे अर्थ -


नाम - म्हणजे. परम् - श्रेष्ठ. अलस - आळशी मनुष्य. असारत्व - निरर्थकता. वर्धयति - वाढवतो. कण्ठस्थीकरणीयानि - पाठ करावीत. विधीयते - दिली जाते.


प्रश्न १ खालील संधी सोडवा - 


१) सुभाषितान्येतानि २) यद्यप्यल्पाक्षराणि ३) तथापि ४) महान्तमर्थम् ५) परोपकारार्थमिम् ६) वर्णयन्त्यन्यान्यलसस्य ७) धनस्यासारत्म् ८) दु:खमपहरति ९) अस्मानुपदिशति १०) शाश्वतमानन्दम् ११) सुभाषितान्यवश्यम् १२) तान्यतीव १३) जलमन्नम्

   
प्रश्न २ खालील प्रश्नांची उत्तरे द्या -
१) किं नाम सुभाषितम् ?
१) सुभाषितानि कीदृशानि सन्ति ?
३) के सुभाषितानां प्रकारा: ?
४) अल्पाक्षराणि सुभाषितानि किं सूचयन्ति ?
५) सुभाषितानां के विषया: ?
६) क: पशु: ?
७) इदं शरीरं किमर्थम् अस्ति ?
८) किं परं भूषणम् ?
९) सुभाषितानि कान् निन्दन्ति ?
१०) सुभाषितानि कान् प्रशंसन्ति ?
११) सुभाषितानि कस्य श्रेष्ठत्वं वर्णयन्ति ?
१२) सुभाषितानि कस्य दोषान् कथयन्ति ?
१३) सुभाषितानि कस्य माहात्म्यं वर्णयन्ति ?
१४) सुभाषितानि कस्य असारत्वं कथयन्ति ?
१५) सुभाषितरसास्वाद: किं किं करोति ?
१६) वयं क्षणिकां तृप्तिं केन विन्दाम: ?
१७) कै: सुभाषितानि कण्ठस्थीकरणीयानि ?
१८) सुभाषितानाम् क: उपयोग: भवति ?
१९) पृथिव्यां कानि रत्नानि वर्तन्ते ?
२०) मूढा: कानि रत्नानि इति कथयन्ति ?

प्रश्न ३ या पाठातील विशेष्य-विशेषणपदांच्या जोड्या तयार करा. -


सरावासाठी अभ्यास

प्रश्न १ रूपे ओळखा. - 


सुभाषितानि, भाषायाम्, बहूनि, गेयानि, एतानि, अन्योक्तय:, अल्पाक्षराणि, सूचयन्ति, वदति, पशु:, शरीरम्, भूषणम्, सज्जनान्, प्रशंसन्ति, दुर्जनान्, निन्दन्ति, वर्णयन्ति, अन्यानि, अलसस्य, दोषान्, कथयन्ति, दानस्य, धनस्य, अस्माकम्, अपहरति, उपदिशति, पदार्थानाम्, सेवनेन, तृप्तिम्, विन्दाम:, यच्छति, छात्रै:, तानि, पृथिव्याम्, रत्नानि, मूढै:


प्रश्न २ - खालील धातूंचा परस्मैपदी आज्ञार्थ लिहा.

१) गण् (१० उ.प.)
२) तड्-ताड् (१० उ. प.)
३) तुष् (४ प. प.)
४) चल् (१ प. प.)
५) दिश् (६ उ. प.)

संधी सोडवून वाचलत की वाक्याचा अर्थ उलगडत जाईल. हा पाठ समजून सागणारा ऑडिओ मंगळवारी पोस्ट करते. तोपर्यंत एक दिवस तुम्ही स्वतः समजून घेता येतो का त्याचा प्रयत्न करा. स्वध्याय मोठा आहे . चार दिवस आहेत सोडवायला.


या पाठातील आणखी काही कठिण शब्दांचे अर्थ 


अपर = दुसरा
कश्चन = कोणी एक
कानिचित् = काही
विद्-विन्द (६प.) = मिळवणे 

 



" पाठ ५९ - विशेषणांनी युक्त पाठ - सुभाषितानि " या Audio साठी खाली क्लिक् करा : 


[ Right click to 'save audio as' for downloading Audio ]
  

No comments:

Post a Comment

पाठ १२१ वा - स्वयं अध्ययनासाठी सुभाषिते

पाठ   १२१   वा  -  स्वयं अध्ययनासाठी सुभाषिते १ ) अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।   अजापुत्रं बलिं दद्यात् देवो दुर्...